SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५२७ TOTTA वसे गुरुकुले णिचं, जोगवं उवहाणवं । पिअंकरे पिअंवाई, से सिक्खं लद्धमरिहई ।।१४।। व्याख्या - वसेत्तिष्ठेद्गुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणञ्चैतत्ततो यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगो व्यापारो धर्मस्य तद्वान्, उपधानमङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान्, प्रियङ्करः कथञ्चित्केनचिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममेव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः । अत एव 'पिअंवाइत्ति' केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः व्याख्या - न च पापपरिक्षेपी, पूर्वोक्तरूपः ९ । न च कथञ्चित्सापराधेभ्योपि मित्रेभ्यः कुप्यति १० । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमिति यः प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुस्मरन् न रहस्यपि तद्दोषं वक्ति । आह च " एकसुकृतेन दुष्कृत - शतानि ये नाशयन्ति ते धन्याः । न त्वेकदोषजनितो, येषां रोषः शतकृतघ्नः । । १ । ।" इति ११ । । १२ । । कलहडमरवज्जए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति वुई ।। १३ ।। व्याख्या - कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिजं तद्वर्जकः कलहडमरवर्जकः १२ । बुद्धो बुद्धिमानेत सर्वत्रानुगम्यत एवेति न प्रकृतसङ्ख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनिर्वहणादित्यभिजातिगः १३ । हीमान् लज्जावान्, सहि कलुषाशयत्वेप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरुपार्श्वेऽन्यत्र वा स्थितो न हि कार्यं विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति ॥ 'सुविणीएत्ति' स एवंविधगुणान्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ।। १३ ।। यश्चैवं विनीतः स कीदृक् स्यादित्याह - Jain Education International ||६|| ॥६॥ llell For Personal & Private Use Only बहुश्रुतपूजानाम एकादश||७|| मध्ययनम् ५२७ - www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy