________________
उत्तराध्ययन
सूत्रम्
Nel
५२१
lel
बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च वूहए, समयं गोयम मा पमायए ।।३६।।
Moll द्रुमपत्रकनाम व्याख्या - बुद्धो ज्ञातहेयादिविभागः, परिनिर्वृतः कषायाग्निशान्त्या शीतिभूतः सन् चरेरासेवस्व संयममिति शेषः, 'गामत्ति'
दशमविभक्तिलोपात् ग्रामे गत: स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यक्पापस्थानेभ्यो निवृतः
मध्ययनम् Ill शान्तिमार्ग मुक्तिमार्ग, च शब्दो भिन्नक्रमस्ततो बृहयेश्च भव्यजनेभ्य उपदेशनाद्वृद्धिं नयेः, तत: समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ।। कि ll ३६ ।। इत्थं जिनोक्तमार्ण्य गौतमो यदकार्षीत्तदाह -
बुद्धस्स निसम्म भासिअं, सुकहिअमट्ठपओवसोहि । राग दोसंच छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ।।३७।।
व्याख्या - बुद्धस्य केवलालोकालोकितलोकालोकस्वरूपस्य श्रीवर्धमानस्वामिनो निशम्याकर्ण्य भाषितं वचः, सुष्टु शोभनेन । 16 उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्त्वा सिद्धिं गतिं गतो भगवान् गौतमः I Mal प्रथमगणधर इति सूत्रार्थः ।। ३७।। इति ब्रवीमीति प्राग्वत् ।।१०।।
Isl इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । Mell श्रीउत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ।।९।। ।। इति दशमाध्ययनं सम्पूर्णम् ।।
५२१
Mall
llel
Isl
liall Mall
llell
in Education International
For Personal & Private Use Only
www.jainelibrary.org