SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ || Ifoll द्रमपत्रकनाम उत्तराध्ययन सूत्रम् ५२० lll दशमlls| मध्ययनम् I6I lel एवं त्वमपि प्रमादेन त्यक्तसंयमभारः, सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ।।३३। अथाल्पं तीर्णं बहु च तरणीयमित्यभिप्रायेणोत्साहभङ्गो मा भूदित्याह - तिण्णोहुसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ । अभितुर पारं गमित्तए, समयं गोयम मा पमायए ।।३४।। व्याख्या - 'तिण्णो सित्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसारं, महान्तं गुरुं, किमिति प्रश्ने, पुनरिति वाक्योपन्यासे, ततः किं Me पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि ला 6 औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु 'अभितुरत्ति' आभिमुख्येन त्वरस्व शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं * 'गमित्तएत्ति' गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३४।। न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः - IS अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि । खेमं च सिवं अणुत्तरं, समयं गोयम मा पमायए ।।३५।। व्याख्या - न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणिं उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणि 'ऊसिअत्ति' उच्छ्रित्य का 16उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धि सिद्धिसङ्गं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? ॥ 8 सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुचये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति ॥ is सूत्रार्थः ।।३५ ।। अथ निगमयन्नुपदेशसर्वस्वमाह - ||| llel ||sl Isll Main Mel Isll loll lcoll llsell 116ll lls llol lanwww.jainelibrary.org Jain Edicionalna For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy