SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ lleli उत्तराध्ययन सूत्रम् ५१८ दशम liell अवउझिअ मित्तबंधवं, विउलं चेव धणोहसंचयं । मा तं बिइअंगवेसए, समयं गोयम मा पमायए ।।३०।। द्रुमपत्रकनाम व्याख्या - अपोह्य मुक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवं, विपुलं विस्तीर्णं, चः समुञ्चये, एव: पूर्ती, धनस्य कनकादिद्रव्यस्य ओघः Mel समूहः तस्य सञ्चयः कोशो धनौघसञ्चयस्तं, मा तत् मित्रादिकं द्वितीयं पुन: स्वीकारार्थमिति शेषः, गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति ॥ मध्ययनम् || वान्तोपमं, भूयोपि तद्गवेषणे च वान्तापानमेव स्यादित्यभिप्राय:, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ।।३०।। इत्थं ममत्वोच्छेदार्थमुक्त्वा का 6 दर्शनशुद्धयर्थमाह - नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए । संपइ नेआउए पहे, समयं गोयम मा पमायए ।।३१।। ___व्याख्या – नहु नैव जिनोऽर्हन् अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः स च द्रव्यतो नगरादिमार्गो non भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गो दृश्यते । कीदृशः ? इत्याह - 'मग्गदेसिएत्ति' Mel मार्यमाणत्वान्मार्गो मोक्षस्तस्य 'देसिएत्ति' सूत्रत्वाद्देशकः प्रापको मार्गदेशकः । अयं भाव: - यद्यप्यधुनाहनास्ति परं तदुपदिष्टो मार्गस्तु | दृश्यते । न चेदृशोयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोपि भव्या न प्रमादं विधास्यन्ति, तत: सम्प्रति अधुना l 6 सत्यपि मयीति भावः । नैयायिके निश्चितमुक्तयाख्यलाभप्रयोजने पथि मागें केवलानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थञ्च व्याख्या । सूत्रस्य सूचकत्वादीति सूत्रार्थः ।।३१।। तथा – ५१८ III ial llel al llell lie Holl min Education International For Personal & Private Use Only 10 www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy