________________
||७||
उत्तराध्ययन
सूत्रम् ५०९
दशम
मध्ययनम
॥ यथा येन प्रकारेण निपतति शिथिलवृन्तबन्धनत्वाद् भ्रश्यति । 'राइगणाणंति' रात्रिगणानां दिनगणाविनाभावित्वाद्रात्रिंदिवसमूहानां, अत्यये । Mon अतिक्रमे 'एवंति' एवं प्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या | in अध्यवसायादिकृतोपक्रमेण वा भ्रश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात्, हे गौतम ! हे इन्द्रभूते ! मा Hell iel प्रमादीर्मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वं प्रकटयितुं ॥ If नियुक्तिकारो गाथात्रयमाह - "परिअट्टिअलायण्णं, चलंतसंधि मुअंतबिंटागं । पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ।।१।।" परिवर्तितं ॥ Me कालपरिणामादन्यथाकृतं लावण्यं सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धि, अत एव 'मुअंतबिंटागंति' मुञ्चद्वन्तं त्यजद्वन्तं यस्य ॥ ॥6॥ तत्तथा पतदित्यर्थः । पत्रं पर्णं, व्यसनमापदं प्राप्तं व्यसनप्राप्तं, कालं प्रक्रमात्पतनप्रस्ताव प्राप्तं कालप्राप्त, भणति गाथां पल्लवान् प्रतीति शेषः ।।१।। तामेवाह - "जह तुम्हे तह अम्हे, तुब्भे वि अ होहिआ जहा अम्हे । अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ।।२।।"
यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । 'अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां
।।२।। ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह – “नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा ॥ In खलु एस कया, भविअजणविबोहणट्ठाए ।।३।।" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योपि यौवनगर्वितोऽनुशासनीयः ।
||६|| ||
1151 lalll
Mer
in Education International
For Personal & Private Use Only
www.jainelibrary.org