________________
दुमपत्रकनाम
उत्तराध्ययन
सूत्रम् ५०६
दशम
मध्ययनम
प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः । प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ।। १२५ ।। गौतमः स्माह युष्माक-मस्माकं च गुरुर्जिनः । ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरुः ? ।। १२६ ।। गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः । जितरागो जयति मे, गुरुवीरो जगद्गुरुः ।। १२७।। तदाकर्ण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः । देवार्पितयतिवेषाः, प्राव्रजन् गौतमान्तिके ।।१२८।। तैश्च सार्धं चलन् भिक्षा-काले जातेथ तान् गणी । किं भोजनं युष्मदर्थ-मानयामीति पृष्टवान् ? ।।१२९।। प्राज्यैः पुण्यैर्गुरुरसो, प्राप्तो वाञ्छितदायकः । तदद्य होरशन-स्तर्पयामः क्षुधानलम् ! ।।१३०।। इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः । परमात्मन् ! भवतु नः, परमानेन पारणम् ।। १३१।। ततो गतो गणी पार्श्व-ग्रामे केनापि भक्तितः । खण्डाज्यपायसैः प्राज्यैः, प्रासुकेः प्रत्यलम्भ्यत ।।१३२।। पतद्ग्रहस्तदापूर्ण-स्तत्पाणी दिद्युते तदा । पूर्णेन्दुरिव-तद्वक्त्र-लीलां शिक्षितुमागतः ! ।।१३३।। अथायान्तं करस्थेकपात्रं तं प्रेक्ष्य साधवः । इति ते चिन्तयनूनं, पश्चादेष्यति पायसम् ।।१३४।। इयता त्वमुना नो नो, भावीनि तिलकान्यपि । यद्वाचिन्त्यप्रभावेस्मिन्, कृतं चिन्तनयानया ।। १३५ ।। प्रभुस्त्वागत्य विधिव-त्परिपाट्या निवेश्य तान् । अभोजयद्यथाकामं, पायसं परिवेषयन् ! ।।१३६ ।। अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् । नाक्षयत्पायसं ताव-दपि वार्द्धरिवोदकम् ।।१३७।। एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् । इति दध्यावहो भाग्यमस्माकमुदितोदितम् ! ।। १३८ ।।
Mall Isl
lall
foll
५०६
lall
in Education
For Personal Private Use Only