________________
॥७॥ ligil
उत्तराध्ययन
सूत्रम्
JAN
lifoll
dol द्रुमपत्रकनाम Mall
दशममध्ययनम्
Ifoll
sil islil Isl IIsil llol lol Ilal
Iol
कण्डरीकोभ्यधाद्भोगे, राज्येन च कृतं मम । व्रतमेव हि मेभीष्टं, बुभुक्षोरिव भोजनम् ।। ७२।। पुण्डरीकोवदद्वत्स !, साधुधर्मोतिदुष्करः । त्याज्यानि वतिनां पाप-स्थानान्यष्टादश ध्रुवम् ।।७३।। ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् । मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ।।७४।। बाहुभ्यां वाद्धितरण-मिव तदुष्करं व्रतम् । त्वञ्चातिसुकुमारोसि, शीतोष्णादिव्यथासहः ।। ७५ ।। दीक्षादानं ततो वत्स !, साम्प्रतं साम्प्रतं न ते । भुक्तभोगो व्रताभोग-मङ्गीकुर्या यथासुखम् ।। ७६ ।। कण्डरीकोलपत् क्लीब-नराणां दुष्करं व्रतम् । परलोकार्थिनां धीर-पुंसां तत्रैव दुष्करम् ।।७७।। तन्मे दत्त व्रतानुज्ञां, द्रुतमित्यनुजो वदन् । भूभुजा व्रतमादातुं, कथमप्यन्वमन्यत ।। ७८।। कण्डरीकस्ततः प्राज्य-रुत्सवैव्रतमाददे । अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ।। ७९।। अथान्यदा तस्य तना-वन्तप्रान्ताशनादिभिः । दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ।। ८०।। अनाचारैर्यश इवा-मयः पीडामयैश्च तैः । तत्तनुस्तनुतां भेजे, वैवयं चाह्नि चन्द्रवत् ।। ८१।। पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः । त एवाब्दसहस्त्रेण, स्थविराः समवासरन् ।। ८२।। तानिशम्यागतो भूपो, नत्वा शुश्राव देशनाम् । कण्डरीकं नमन् भूरि-रोगं तद्वपुरेक्षत ।। ८३।। राजाथ स्थविरानूचे, प्रासुकैर्भेषजादिभिः । चिकित्सां कारयिष्यामि, कण्डरीकमहामुनेः ।। ८४ ।।
llol llol
||all ||
llol Isll Isl lol Ilsill
leir
illl llsll llll
Iel
llall
islil ॥ell
Isil
neu
JainEducation
For Personal Private Use Only