________________
द्रुमपत्रकनाम
उत्तराध्ययन
सूत्रम्
दशम
५०१
मध्ययनम्
Poll
Wesh
Holl Holl
lall
तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती । पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ।।५९।। तस्यां नगर्यामन्येद्युः, स्थविराः समवासरन् । उद्याने नलिनवने, त्रिदशा इव नन्दने ।।६।। तान् प्रणम्य महापद्मः, श्रुत्वा धर्म विरक्तधीः । गत्वा पुर्यां पुण्डरीकं, न्यधाद्राज्ये महामहैः ।। ६१।। कण्डरीकञ्च संस्थाप्य, यौवराज्यग्रहीद् व्रतम् । पुण्डरीकमहाराज-कृतदीक्षामहो नृपः ।।२।। अधीत्य सर्वपूर्वाणि, क्रमात्सम्प्राप्तकेवलः । मासिकानशनेनागा-त्स राजर्षिः परं पदम् ।। ६३।। अथान्येद्युः पावयन्तो, धरां चरणरेणुभिः । त एव स्थविरास्तत्र, भूयोपि समवासरन् ।।६४।। तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः प्रणम्य च । निशम्य देशनां सम्यक्, श्राद्धधर्ममुपाददे ।। ६५ ।। कण्डरीकोपि तान्नत्वा, श्रुत्वा धर्ममदोवदत् । आदास्येहं भवोद्विग्नः, प्रव्रज्यां युष्मदन्तिके ।। ६६।। तद्यावद्भूपमापृच्छ्या -गच्छाम्यहमिह प्रभो ! । तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ।। ६७।। प्रतिबन्धं मा कृथास्त्व-मित्युक्तो गुरुभिस्ततः । कण्डरीको द्रुतं गत्वा, पुर्यामित्यग्रजं जगौ ।। ६८।। मया गुरोजिनवचो, लब्धमब्धेरिवामृतम् । आरोग्यमिव वैराग्य, तत्प्रभावान्ममाभवत् ।। ६९।। तधुष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे । नृजन्म हारयेत्को हि, प्रमादेन धुरत्नवत् ? ।। ७०।। पुण्डरीकोऽब्रवीन्मास्मा-धुनाकार्षीतग्रहम् । राज्यं ददामि ते भुकंव, भोगान् गृह्णाम्यहं व्रतम् ।। ७१।।
lol
IIsl ilell llell
ller
llell llell lloll lell
५०१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org