________________
द्रमपत्रकनाम
उत्तराध्ययन
सूत्रम् ५००
दशम
मध्ययनम्
||
si || llell lell lloll ||७|| llell ||७ Ill leil
साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् । सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः ।। ४७।। "जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जगभावविअक्खण । अट्ठावयसंठविअरूव कम्मट्ठविणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ।। ४८।।" इति स्तुत्वा च नत्वा च, चैत्यानिर्गत्य गौतमः । उवास रात्रिवासाया-ऽशोकोऽशोकतरोस्तले ।। ४९।। इतश्च धनदः शक्र-दिक्पालो नन्तुमर्हतः । तत्रायातो जिनानत्वा, ववन्दे गणिनं मुदा ।। ५०।। देशनायां गणेशोपि, तत्वत्रयनिरूपणे । इति साधुगुणानूचे, गुरुतत्वं प्ररूपयन् ।। ५१।। "महाव्रतधरास्तीव्र-तप:शोषितविग्रहाः । अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ।। ५२।। निष्कषाया महात्मानः, साधवो गुरवः स्मृताः । तारयन्ति परं ये हि, तरन्त: पोतवत्स्वयम् ! ।।५३।। (युग्मम्)" तकृत्वा गणिगात्रं च, वीक्ष्यातिमृदु पीवरम् । श्रीदो दध्यौ विसंवादि, वचोस्य स्ववपुष्यपि ।। ५४।। अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् । इति वैश्रमणः किञ्चि-जहास विकसन्मुखः ! ।। ५५।। ततो ज्ञात्वा तदाकूतं, चतुर्ज्ञानी जगौ प्रभुः । ध्यानमेव प्रमाणं स्यात्, तनुत्वं न तनोः पुनः ।। ५६।। अस्य संशयपङ्कस्य, क्षालनाय जलोपमम् । श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ।। ५७।। विजये पुष्कलावत्यां, विदेहावनिमण्डने । नगर्यां पुण्डरीकिण्यां, महापद्मनृपोभवत् ।। ५८।।
Isl
IIGI iiii
16 llell
Isll
Jel
real
sill
in Econo
For Personal Private Use Only