SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Jell el उत्तराध्ययन सूत्रम् ४९९ all all ॥oll द्रुमपत्रकनाम दशमllel Toll मध्ययनम् lls Meil llol 16 Isil IGN Ill 116| 16 IISM Nsi मुक्तिरष्टापदारोहा-द्विशामीति विभोर्वचः । श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ।। ३५ ।। (युग्मम्) उपवासतपास्तेषु, प्रथमः सपरिच्छदः । कन्दादिभोजनो भेजे, तस्याद्रेरादिमेखलाम् ।। ३६।। षष्ठकारी द्वितीयस्तु, पक्वपत्रादिभोजनः । द्वितीयां मेखलां प्राप, सतन्त्रस्तस्य भूभृतः ।। ३७।। तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः । तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ।। ३८।। न तु कोपि गिरेस्तस्य, क्लिश्यमानोप्यगाच्छिरः । गम्यं गरुत्मतो मेरुशृङ्ग किं यान्ति केकिनः ? ।।३९।। अथ ते तापसा: सर्वे, स्वतेजोविजितारुणम् । आयान्तं गौतमं प्रेक्ष्या-चिन्तयन्निति विस्मिताः ! ।। ४०।। तप:कृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् । गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः ? ।। ४१।। उचैर्मखेष तेष्वेवं, चिन्तयत्स्वेव गौतमः । जङ्गाचरणलब्ध्यार्क-रश्मीनालम्ब्य सञ्चरन् ।। ४२।। तूर्णं तेषामुपर्यागा-त्क्षणाचागाददृश्यताम् । जवनैः पवनैः प्रेर्य-माणो मेघ इवोञ्चक्कैः ।। ४३।। (युग्मम्) तापसास्ते तु तं प्रोजैः, प्रशंसन्तो व्यचिन्तयन् । अस्य शिष्या भविष्यामो-ऽमुष्मादुत्तरतो गिरेः ।। ४४।। गौतमस्तु गतः शैल-मौलौ भरतकारितम् । हृतावसादं प्रासादं, दर्शनीयं ददर्श तम् ।। ४५।। मानवर्णान्वितानादि-जिनादीन स्थापनाजिनान् । ननाम 'नित्यप्रतिमा-प्रतिमांस्तत्र च प्रभुः ।। ४६।। १. शाश्वतप्रतिमा तुल्यान् Isl ||७|| llall Neali all ॥७॥ Nell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy