________________
||60 lleslil
उत्तराध्ययन
सूत्रम् ४९८
llslil
द्रुमपत्रकनाम
दशममध्ययनम्
is
Ileall
liball Ilroll
एताभ्यां हि वयं पूर्व, राज्यश्रीभाजनीकृताः । इदानीं तु महानन्द-प्रापकं प्रापितुं व्रतम् ।। २२।। इत्यादिध्यानदावाग्नि-ध्वस्तकल्मषभूरुहः । मुक्तिमन्दिरनिश्रेणि, क्षपकश्रेणिमाश्रिताः ।। २३।। मोहमत्तेभपञ्चत्व-पञ्चास्या मार्ग एव ते । चञ्चत्प्रपञ्चं पञ्चापि, पञ्चमज्ञानमासदत् ! ।।२४।। (युग्मम्) जिनाभ्यर्णं गतास्तेथ, गौतमस्वामिना समम् । प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपर्षदि ।। २५ ।। ततस्तान् गौतमः प्रोचे-ऽनभिज्ञा इव भोः ! कथम् ? । यूयं यात समायात, वन्दध्वं भुवनप्रभुम् ।। २६।। जिनान्माऽऽशातयेत्युक्तः, श्रीवीरेणाथ गौतमः । तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ।। २७ ।। दुर्भगं हरिणाक्षीव, भजतेद्यापि मां न हि । केवलज्ञानलक्ष्मीस्त-त्किं सेत्स्यामि नवाथवा ? ।। २८ ।। इति चिन्तयत: श्रीम-दिन्द्रभूतिगणेशितुः । असौ सुराणां संलापः, कर्णजाहमगाहत ।।२९।। जिनेनाद्योदितं यो हि, जिनात्रमति भूचरः । स्वलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः ।।३०।। इति देववचः श्रुत्वा-ऽष्टापदं गन्तुमुद्यतः । पप्रच्छ गौतमः सार्व-सार्वभौमं कृताञ्जलिः ।।३।। ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः । तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ।।३।। निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः । भक्तयाभिवन्द्य तीर्थेशं, प्रतस्थेष्टापदं प्रति ।।३३।। इतश्च कोडिन्नदिन्न-सेवालास्तापसास्त्रयः । तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ।। ३४।।
Ifoll
11
lel lish 180
foll
Tell Iroll Isil irail Deall liol firoll firel
lesh
all
IA.I
For Personal & Private Use Only
www.jainelibrary.org