________________
||5||
द्वमपत्रकनाम
उत्तराध्ययन
सूत्रम् ४९७
Mel Mol
दशममध्ययनम्
lol
Ill
110 lesil
lllll
Mon
sil Isil
जामेयं गागिलिं राज्ये, स्थापयित्वा महोत्सवैः । ततः सालमहासालौ, प्राब्राजिष्टां जिनान्तिके ।।९।। विहरन्तौ च तो नित्यं, श्रीवीरस्वामिना समम् । एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ।। १० ।। अन्यदा प्रस्थितं चम्पां, प्रति राजगृहात् पुरात् । प्रभुं सालमहासालौ, प्रणिपत्येत्यवोचताम् ।। ११ ।। नगर्यां पृष्टचम्पायां, प्रतिबोधयितुं निजान् । स्वामिन्त्रावां यियासावो, यद्यनुज्ञां प्रयच्छसि ।।१२।। अमूढलक्ष्यो भगवां-स्ततस्तौ गौतमान्वितौ । आदिशत्तां पुरीं गन्तुं, तेपि तत्र ययुः क्रमात् ।।१३।। तत्र काञ्चनपाथोजे, निविष्टो नाकिनिर्मिते । श्रीगौतमश्चतुर्ज्ञानी, प्रारेभे धर्मदेशनाम् ।।१४।। श्रुत्वा गागलिभूपोपि, तमायातं समातुलं । यशोमतीपिठरयुग, ययौ वन्दितुमुत्सुकः ।।१५।। हर्षोत्कर्षोल्लसद्रोम-हर्षों नत्वाथ तान्नृपः । उपविश्य यथास्थान-मश्रौषीद्धर्मदेशनाम् ।। १६ ।। संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः । गागलिनगरी गत्वा-गजं राज्ये न्यवीविशत् ।।१७।। पितृभ्यां सहित: प्राज्य-रुत्सवैश्चाददे व्रतम् । गौतमस्वामिपादान्ते, दान्तात्मा मेदिनीपतिः ।।१८।। ततः सालमहासाल-गागल्यादिभिरन्वितः । गणी गन्तुं जिनाभ्यणे-ऽचलञ्चम्पापुरीं प्रति ।।१९।। तदा सालमहासाला-वित्यचिन्तयतां मुदा । यद्भवात्तारितान्येता-न्येतद्धव्यमभूद्धृशम् ।। २० ।। तदा च दध्युरित्यन्त-गांगल्याद्या अपि त्रयः । अहो ! सालमहासालावस्माकमुपकारिणी ।। २१।।
Intell
Hell
Poll Isil Noil Pall
Mall
lil
Mall foll
Hall 16 lisil lell
||sil
४९७
iell ||rail Hall Mall el
llsil
lesil
lain Edition in
For Personal & Private Use Only