________________
Isl
ION
उत्तराध्ययन
सूत्रम् ४९५
नमिप्रव्रज्यानाम
नवममध्ययनम्
16ll ||७||
Mall
Illl lies
leel lish
Isll ||6ll ||sil
lIsl 16
|| || liol lish loll lal Isl
करकण्डुरथाचख्यौ, मोक्षाकाक्षिषु भिक्षुषु । वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ? ।।१४।। या रोषात्परदोषोक्तिः, सा निन्दा खलु कथ्यते । सा तु कस्यापि नो कार्या, मोक्षमार्गानुसारिभिः ।।१५।। हितबुद्ध्या तु या शिक्षा, सा निन्दा नाभिधीयते । अत एव च सान्यस्य, कुप्यतोपि प्रदीयते ।।१६।। यदाएं - "रूसऊ वा परो मा वा विसं वा परिअत्तउ । भासिअव्वा हिआ भासा सपक्खगुणकारिआ ।।१७।।" अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना । ते त्रयोप्युररीचक्रु-विजह्वश्च यथारुचि ।।१८।। पुष्पोत्तरविमानात्ते, चत्वारोपि सहच्युताः । सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमात् ।।१९।। इति प्रत्येकबुद्धानां, चतुर्णां शमशालिनाम् । सम्प्रदायानुसारेण, चरितं परिकीर्तितम् ।। २० ।। कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि । इत्थं निशम्य शमशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ।। २१।। इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता ।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ।।९।।
।। इति नवमाध्ययनं सम्पूर्णम् ।।
||
Mal
incli lall
||७ll
lol IGl
४९५
Isl
Ms.
Jain Education International
For Personal & Private Use Only
www.
by.org