SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४९४ llsil || नमिप्रव्रज्यानाम नवम मध्ययनम् || ||s Isil llol ||sil liall Isl llel Ioll ||Gll liall इति नग्गतिनृपकथा ।। ४।। ततश्च - राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः । क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः ।।१।। तत्र चाभूञ्चतुर्दार-मेकं यक्षनिकेतनम् । तस्मिंश्च व्यन्तरो मूर्ति-स्थित: पूर्वामुखोभवत् ।।२।। करकण्डुमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान् । अपाचीसम्मुखद्वारा, द्विमुखश्च महामुनिः ।।३।। पराङ्मुखः कथं साधो-स्तिष्ठामीति विचिन्तयन् । तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ।।४।। नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे । ततोपि वदनं प्राग्वत्तृतीयमकरोत्सुरः ।।५।। नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः । यक्षश्चक्रे ततोप्यास्यं, ततश्चाभूञ्चतुर्मुखः ।।६।। करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् । ततः स कण्डूयनकं, लात्वाऽकण्डूयत श्रुतिम् ।।७।। तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् । त्यक्तं राज्यादि चेत्सर्वं, तदादः सञ्चिनोषि किम् ? ।।८।। तेनेत्युक्तोपि नो किञ्चित्, करकण्डुर्यदावदत् । तदा द्विमुखराजर्षि, नमिसाधुरदोभ्यधात् ।।९।। त्यक्तराज्यादिकार्यापि, निर्ग्रन्थोपि भवान् स्वयम् । करोति कार्यं चेदन्य-दोषप्रेक्षणलक्षणम् ।।१०।। किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् । परापराधवीक्षायै, क्रियन्ते हि नियोगिनः ।।११।। इदानीं तु नियोगित्वं, निसङ्गस्योचितं न ते । तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुर्गतिः ।।१२।। यदि सर्वं विहाय त्वं, मोक्षायोद्यच्छसे मुने ! । तदा किमर्थमन्यस्य, निन्दां वितनुषे वृथा ? ।।१३।। ||oll IMel Isl ||sil || lol Mel ell Nell sill llol lroll lol llll ४९४ Noil le Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy