________________
उत्तराध्ययन
सूत्रम्
विनयनाम
प्रथममध्ययनम्
तन्मार्गे मन्त्रिणां बुद्ध्या, कूणिकोऽचीकरत्ततः । खातिकां ज्वलदङ्गार-पूर्णां पर्णाद्यवस्तृताम् ।। ८२।। रात्रौ तत्रागत: सोऽथ, गजो ज्ञात्वा विभङ्गतः । ज्वलदङ्गारगा तां, नुनोऽपि न पुरोऽचलत् ।। ८३।। तावूचतुस्ततः खिन्नी, कुमाराविति तं द्विपम् । परेभ्यः किं बिभेषि ? त्वं, यत्पुरो न चलस्यरे ! ।। ८४ ।। वरं श्वा पोषितः शश्व-त्स्वामिनं योऽनुवर्त्तते । कृतघ्नोऽहिरिव स्वामि-कृत्यनाशी भवानतु ।। ८५।। इत्युक्तः सिन्धुरस्ताभ्यां, स्वामिभक्तधुरन्धरः । गृहीत्वा शुण्डया स्कन्धा-त्ती बलेनोदतारयत् ।। ८६ ।। स्वयं तु तस्यां ग यां, दत्वा झम्पां विपद्य च । आद्येऽगानरके धैर्य-महो तस्य पशोरपि ! ।। ८७।। तद्वीक्ष्य सानुतापी तौ, कुमाराविति दध्यतुः । क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् ! ।। ८८।। कृते यस्य कृतो देश-त्यागो भ्राता रिपूकृतः । अस्मिंश्च व्यसनाम्भोधौ, क्षिप्तो मातामहोऽप्यहो । ।।८९।। निहत्य तं गजं युक्तं, नैव जीवितुमावयोः । जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ।। ९०।। (युग्मम्) तदा शासनदेव्या तो, नीतौ वीरजिनान्तिके । प्रव्रज्यैकादशाङ्गानि, सुधियो पेठतुः क्रमात् ।। ९१ ।। गुणरत्नं तपस्तत्वा, संलिख्य च समाधिना । हल्लः सुरो जयन्तेऽभू-द्विहल्लस्त्वपराजिते ।। ९२।। गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः । व्यधात्सन्धामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ।। ९३।। खरयुक्तहलैरेना, नगरी न खनामि चेत् । तदा त्यजाम्यहमसून, भृगुपातादिना ध्रुवम् ।।९४ ।।
||oll
For Personal & Private Use Only
www.jainelibrary.org