________________
उत्तराध्ययन
सूत्रम्
ish
en
||sl Poll Isl
6 विनयनाम
प्रथमMail
मध्ययनम् Isll
lIsil
III || 16 IIsl IIsl
तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकण्टको । महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ।।६९।। युद्धे द्वितीये तु रथमुशले भ्रमकं विना । भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ।। ७०।। ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् । ममन्थ वाढिव्यूहं च, मन्थाचल इवोदधिम् ।। ७१।। तमापतन्तं संहां, सामर्षश्चेटको नृपः । मुमोचाकर्णमाकृष्य, सद्यो दिव्यं शिलीमुखम् ।।७२।। कूणिकस्य पुरो वज्र-कवच वज्रभृद्दधौ । पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः ।।७३।। तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा । भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ।।७४।। सत्यसन्धो द्वितीयं तु, चेटको नामुचच्छरम् । द्वितीयेऽप्यह्नि तद्वाणं, तथैवाऽजनि निष्फलम् ।। ७५।। आद्ये रणे षण्णवति-र्लक्षा नृणां ययुः क्षयम् । लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ।। ७६ ।। तेष्वेको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् । तत्सुहद्धद्रको नृत्वं, तिर्यक्त्वं नरकं परे ।। ७७।। इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः । यात्सु स्वस्वपुरं नंष्ट्वा-ऽष्टादशस्वपि राजसु ।। ७८।। प्रणश्य चेटको-शो, वैशालीमविशत्पुरीम् । रुरोध सर्वतस्तां च, कूणिकः प्रबलैर्बलैः ।।७९।। (युग्मम्) अथ सेचनकारूढी, कूणिकस्याखिलं बलम् । उपदुद्रुवतुहल्ल-विहल्लौ तौ प्रतिक्षपम् ।। ८०।। अवस्कन्दप्रदानायाऽऽगतं तं गन्धहस्तिनम् । न हन्तुमनुगन्तुं वा, तत्सैन्ये कोऽप्यभूत् प्रभुः ।। ८१।।
sil
||sil lls ||s
For Personal
e
Only