SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ lol lol ||5 Isl ॥ नमिप्रव्रज्यानाम oll उत्तराध्ययन सूत्रम् ४८७ 18 नवम मध्ययनम् lifoll Ilell llol Isl Del lisil Il lls llsil lol llol राज्ञी स्माह तवेदं श्वो, वदिष्यामि शयेऽधुना । प्राप्ता च वारकं प्राग्व-शेट्या पृष्टेवमभ्यधात् ।।१०२।। बभूव पेटिका सा हि, स्वच्छस्फटिकनिर्मिता । तत्तस्यां पिहितास्याया-मपि भूषा ददर्श राट् ।। १०३।। आख्यानैरीदृशैर्यावत्, षण्मासान् सा नरेश्वरम् । व्यमोहयत्ततः सोभू-त्तस्यामेव रतो भृशम् ।।१०४।। नृपाङ्गजा अप्यन्यास्तु, राज्ञी जल्पयन्नृपः । ततस्ता: कुपिता नित्यं, तस्याश्छिद्राण्यमार्गयन् ।।१०५।। ऊचूश्चैवमयं भूपो-ऽनया नूनं वशीकृतः । कुलीना अपि नस्त्यक्त्वा, यदस्यामेव रज्यते ।।१०६ ।। चित्रकृत्तनया सा तु, सुधीर्मध्यंदिनेन्वहम् । स्थित्वा गर्भगृहे हित्वा, वस्त्रभूषा नृपार्पिताः ।। १०७।। आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च । एकाकिनी स्वमात्मन-मेवमुझेरबोधयत् ।।१०८।। (युग्मम्) रे जीव ! मा मदं कार्षी-र्मा विधा ऋद्धिगौरवम् । मा विस्मार्षीनिजां पूर्वा-वस्थां प्राप्तोपि सम्पदम् ।।१०९।। अलङ्कारास्त्रपुमया, जीर्णानि वसनानि च । निजानीमानि जानीहि, सर्वमन्यत्तु भूपतेः ।।११०।। तदर्पमपहाय त्व-मात्मन् ! शान्तमना भव । यथा सुचिरमेतासां, पदं भवसि सम्पदाम् ।।१११।। अन्यथा तु नरेन्द्रस्त्वां, गृहीत्वा गलकन्दले । निष्काशयिष्यति गृहात्, कुथिताङ्गी शुनीमिव ।। ११२।। तञ्च तश्चेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः । इत्यूचिरेऽपरा राज्यो, जनेशं विजने स्थितम् ।।११३।। यद्यपि त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि । रक्षामस्त्वां वयं विघ्नात्, स्त्रियो हि पतिदेवताः ।।११४ ।। Isl llel islil isil 0 Ifoll ४८७ For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy