________________
150 lioll
उत्तराध्ययन
सूत्रम्
४८६
Moil
नमिप्रव्रज्यानाम
नवम
मध्ययनम् Nell Hell llell llell
llel
llell Isil
मञ्जूषानिहितौ तौ च, नृपो नद्यामवाहयत् । दयार्द्रचेता न पुन-रियामास तौ स्वयम् ।। ८९।। यान्ती नदीजले वीक्ष्य, तां पेटां केप्यकर्षयन् । तां समुद्धाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ।। ९०।। युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासरा: ? । अद्य तुर्यं दिनमिति, तयोरेकोब्रवीत्तदा ।।११।। कथं तुर्यमहर्जात-मिति पृष्टा भुजिष्यया । देव्यूचे श्व इदं वक्ष्ये, निद्राकालो ह्युपस्थितः ।। ९२।। पञ्चमेपि दिने राज्ञा, कौतुकादत्तवारका । तथैव दास्या पृष्टा चे-त्यूचे कनकमञ्जरी ।। ९३।। तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् । इत्युक्त्वा सा कथामन्यां, दास्या पृष्टैवमब्रवीत् ।। ९४ ।। जज्ञिरे बहुला राग्यो, राज्ञः कस्यापि कुत्रचित् । तासु चैकाभवत्तस्य, स्वप्राणेभ्योपि वल्लभा ।। ९५ ।। राजीनां शङ्कयान्यासां, कलादै गृहस्थितैः । स च तस्याः कृते छन्न-मलङ्कारानकारयत् ।।९६।। को हि कालोधुनास्तीति, कलादास्तांश्च कौतुकात् । कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ।। ९७।। तत्र रात्रिः कथं ज्ञाते-त्युक्ता राजी भुजिष्यया । प्रोचे प्रमीलाभ्येतीति, वक्ष्येऽनेद्युरिदं तव ।। ९८ ।। षष्ठेप्यह्नि नृपप्राप्त-वारका साथ तां जगौ । भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ।। ९९।। कथान्तरञ्च पृष्टेवं, साख्यत्कस्यापि भूपतेः । पेटां भूषणसम्पूर्णा, निश्छिद्रां कोप्यढौकयत् ।।१००।। तस्यां चानुद्घाटिताया-मेवापश्यन्नृपोऽखिलान् । तन्मध्यस्थानलङ्कारा-न्दास्याख्यत्स्यादिदं कथम् ? ।।१०१।।
||sil 116l 11s
||७॥
||al
|| ||७|| ||si || IlI
||61
४८६
llell
Jain Edicion n
olla
For Personal & Private Use Only
". www.jainelibrary.pra