________________
उत्तराध्ययन
सूत्रम् ४८५
II नमिप्रव्रज्यानाम
नवममध्ययनम्
[nel
तामर्धोक्तं कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् । देवश्चतुर्भुजः सोऽभू-न तु तन्मानभूघनः ।। ७६।। अथाख्याहि कथामन्या-मेवं मदनयोदिता । राज्ञी जगी वने क्वापि, रक्ताशोकद्रुमोऽभवत् ।।७७।। शाखा शताकुलस्यापि, तस्य छाया तु नाभवत् । जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ।। ७८।। साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव । ततस्तस्यै ददौ भूप-स्तृतीयेप्यह्नि वारकम् ।। ७९।। प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया । तरोस्तस्याभवच्छाया-ऽधस्तादूर्ध्वन्तु नाऽभवत् ।। ८०।। आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः । सावादीत् क्वाप्यभूद्ग्रामे, कोपि दासेरपालकः ।। ८१।। तस्य चैको महाकायो, रवणोन्तर्वणं चरन् । एकं बब्बूलमद्राक्षीत्, फलपुष्पभराकुलम् ।। ८२।। ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः । पत्रमात्रमपि प्राप, न तु तस्य महातरोः ।।८३।। जातकोपस्ततस्तस्य, द्रुमस्योर्ध्वं क्रमेलकः । विण्मूत्रे व्यसृजत्को वा, कदर्येभ्यो न कुप्यति ? ।। ८४।। मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् । तस्योपरि शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ।। ८५।। राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् । तुर्येप्यह्नि ततो राजा, तस्यै वारकमार्पयत् ।। ८६।। ततो दास्या तया पृष्टा, प्रोचे कनकमञ्जरी । बब्बूलः स हि कूपेभू-त्तत्तं प्सातुं स नाशकत् ।। ८७।। प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् । भूपेन क्वापि केनापि, गृहीती द्वौ मलिम्लुचो ।।८८।।
wall
Mal lusil
Illl
४८५
For
Use Only