________________
||61 1161
उत्तराध्ययन
सूत्रम् ४८४
Tell नमिप्रव्रज्यानाम Well नवम
isll मध्ययनम् ligil
lel
list
|| || ||sl ||61
IMel foll
||७ |lol
स्वामिनि ! त्वं कथां ब्रूहि, काञ्चित्कौतुककारिणीम् । सा प्रोचे राज्ञि, निद्राणे, कथयिष्यामि तामहम् ।।३।। तच्छ्रुत्वा भूधवो दध्या-वस्याश्चातुर्यपेशले । वचने श्रूयमाणे हि, शर्करा कर्करायते ।। ६४।। ततोऽनया वक्ष्यमाण-माख्यानमहमप्यहो ! । शृणोमीति नृपो ध्यायन्, सुष्वापालीकनिद्रया ।। ६५ ।। अथोचे मदना देवि !, सुप्तो राट् कथ्यतां कथा । साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ।। ६६।। श्रीवसन्तपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् । अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ।।६।। तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः । तदाकर्ण्य जगौ जात-कौतुका मदनेति ताम् ।। ६८।। एकहस्ते सुरगृहे, चतुर्हस्त: सुरः कथम् ? । मातीति संशयं छिन्धि, स हि खाटकुरुते हृदि ।। ६९।। देवी स्माहाधुनायाति, निद्रा मे तत्परेद्यवि । इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ।। ७०।। एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् । अथो यथोचितस्थाने-ऽस्वपीत्कनकमञ्जरी ।। ७१।। भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? । तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि ।। ७२।। यद्वा वक्ष्यत्यसौ जाल्म-मस्मिन् प्रश्ने कृते हि माम् । अोदिता च वार्ता स्या-द्वल्लभातोपि वल्लभा ।।७३।। श्वस्तनेपि दिने दास्ये, तदस्या एव वारकम् । यथार्थकथिता वार्ता, श्रूयते स्वयमेव सा ।।७४ ।। ध्यात्वेत्यदानृपस्तस्यै, द्वितीयेप्यह्नि वारकम् ! । तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत् ! ।। ७५ ।।
Mal
lel
lll Isl
४८४
llel 116||
11
lol
Ill
Mell Jain Education intellional
For Personal & Private Use Only
www.jainelibrary.org