SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४८२ ITTTTTOSTS Jain Education International केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता । पृष्टा सा पुनरित्यूचे, तं राजानमजानती ।। ३७ ।। अहं चित्राङ्गदाह्वस्य, वृद्धचित्रकृतः सुता । इहस्थस्य पितुर्हेतो-रायान्त्यादाय भोजनम् ।। ३८ ।। रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे । अद्यैकं मर्त्यमद्राक्षं स मूर्खः प्रथमो मतः ।। ३९ ।। (युग्मम् ) राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कुलो भवेत् । इति तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ।। ४० ।। निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् । खट्वायामादिमः पादः, कथ्यते बालिशाग्रणीः । । । ४१ ।। द्वितीयस्तु महीपालो - ऽविज्ञातपरवेदनः । शिल्पिनां वेश्मतुल्यांश-र्योऽदाचित्रयितुं सभाम् ।। ४२ ।। सन्ति चित्रकृतोऽनेके-ऽन्येषु सर्वेषु वेश्मसु । मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ।। ४३ ।। तस्याप्यन्यैः सह समं, भूपो भागं प्रकल्पयन् । द्वितीयः प्रोच्यते मूढ- स्तृतीयस्तु पिता मम ! ।। ४४ ।। स हि पूर्वार्जितं सर्वं, बुभुजे चित्रयन् सभाम् । विनार्जनां भुज्यमानं, वित्त हि स्यात्कियच्चिरम् ? ।। ४५ ।। अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् । स याति देहचिन्तायै, न तु पूर्वं करोति ताम् ।। ४६ ।। ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् । सदन्नेपि हि शीते स्या- द्वैरस्यं किं पुनः परे ? ।। ४७ ।। तादृशं च विधायानं, भुञ्जानो मत्पिताऽनिशम् । तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः ! ।। ४८ ।। आगमो हि कदाप्यत्र न सम्भवति केकिनाम् । तत्स्यात्कौतस्कुतः पात- स्तत्पिच्छस्येह कुट्टिमे ? ।। ४९ ।। For Personal & Private Use Only STANDOOOOOOO नमिप्रव्रज्यानाम TDS టైటెడ్ లే వా వా వా వా వా వాత తో ॥६॥ नवम मध्ययनम् ४८२ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy