SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४७६ का सम्भावितं तदप्ययुक्तं, मुमुक्षूणां क्वचिदपि काङ्क्षाया अभावात् । उक्तं हि - "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः" इति ।।५३।। कथं । नमिप्रव्रज्यानाम नवमपुन: कामान् प्रार्थयमाना दुर्गतिं यान्तीत्याह - मध्ययनम् अहे वयइ कोहेणं, माणेणं अहमा गई । माया गइपडिग्घाओ, लोहाओ दुहओ भयं ।।५४।। व्याख्या - अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्ब्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो Mell is गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्यादिति सर्वत्र गम्यं । कामेषु च प्रार्थ्यमानेष्ववश्यं भाविनः क्रोधादयस्ते || Mell चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ।। ५४।। इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह - ____ अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं । वंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहिं ।।५५।। व्याख्या - अपोह्य त्यक्त्वा ब्राह्मणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुतिं कुर्वन् all lal इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ।। ५५।। तथा हि - अहो ते निजिओ कोहो, अहो ते माणो पराजिओ । अहो ते निरक्किया माया, अहो ते लोहो वसीकओ ।। ५६।। व्याख्या - अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमनृपवशीकरणाय प्रेरितोपि न क्षुभितः ! तथा अहो ! ते मानः पराजितो l यस्त्वं मन्दिरं दह्यत इत्याद्युक्तोपि कथं मयि जीवतीदं स्यादिति नाहङ्कतिं कृतवान् ! अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु l ४७६ Isi fol ISM in Education intentional For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy