________________
उत्तराध्ययन
सूत्रम्
४७४
एयम निसामित्ता, उकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ४७ ।।
सुवण्णरुप्पस्स उ पव्वया भवे, सिआ ह केलाससमा असंखया ।
नरस्स लुद्धस्स न ते हिं किंचि, इच्छा हु आगास समा अतिआ ।। ४८ ।।
व्याख्या - सुवर्णं च रूप्यं च सुवर्णरूप्यं तस्य तुः पूर्ती, पर्वताः पर्वतप्रमाणा राशयः 'भवेत्ति' भवेयुः स्यात्कदाचित्, हुरवधारणे भिन्नक्रमश्च, ततः कैलाससमा एव, न तु लघुगिरिप्रमाणा:, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसङ्ख्यकाः सङ्ख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः तादृशैरपि स्वर्णरूप्यपर्वतैः किञ्चिदपि स्वल्पमपि परितोषकारणं स्यादिति गम्यं । कुत इत्याह-इच्छा अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता । उक्तञ्च - "न सहस्राद्भवेत् तुष्टि-र्न लक्षात्र च कोटितः । न राज्यान्नैव देवत्वा-नेन्द्रत्वादपि देहिनाम् ॥ ।। १ ।। " इति ।। ४८ ।। तथा -
पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे ।। ४९ ।।
व्याख्या - पृथ्वी भूमिः, शालयो लोहितशाल्यादय:, यवाः प्रतीताः, चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमोऽग्रे योक्ष्यते, हिरण्यं, सुवर्णं, रूप्याद्युपलक्षणमेतत्, पशुभिर्गवादिभिः सह प्रतिपूर्णं समस्तं नैव अलं समर्थ प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति शेषः । इत्येतत्पूर्वोक्तं
॥६॥
Hell Jain Education International
For Personal & Private Use Only
नमिप्रव्रज्यानाम नवममध्ययनम्
४७४
www.jainlibrary.org