________________
lol
उत्तराध्ययन
सूत्रम्
|| ilol ilsil lol
IIII Mail Isll incil lol
विनयनाम
प्रथममध्ययनम्
Voin
गत्वा दूतोऽपि वैशाली, नत्वा चेटकमित्यवक् । राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः ।। ४३।। गजादिरत्नान्यादाया-गताविह कुमारको । प्रेषणीयो द्रुतं पूज्य-स्तुल्यैर्मयि तयोस्तथा ।। ४४।। तौ चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् । नो चेद्वो भविता भूया-नायासोऽनुशयावहः ।। ४५।। अथेति चेटकोऽवोच-दूत ! त्वं ब्रूहि कूणिकम् । तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ।। ४६।। रक्ष्यन्ते शरणायाताः, किञ्चान्येऽपि मनस्विभिः । तद्दौहित्रौ कथङ्कार, प्रेषणीयाविमौ मया ? ।। ४७।। दौहित्रत्वात्समाना मे, भवन्तो यद्यपि त्रयः । न्यायित्वादाश्रितत्वाञ्च, विशिष्येते तथाऽप्यम् ।। ४८।। सत्यप्येवं दापयामि, द्विपादि तव तुष्टये । ददासि यदि राज्यांशं, न्यायोपेतं त्वमेतयोः ।। ४९।। तछेटकवचो गत्वा, दूतः स्वस्वामिनेऽवदत् । क्रोधाध्मातस्तत: सोऽपि, यात्राभम्भामवीवदत् ।।५०।। कालाद्यैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः । त्रयस्त्रिंशत्सहस्त्राश्व-रथसिन्धुरसंयुतः ।।५१।। त्रयस्त्रिंशत्कोटिपत्ति-कलितश्चलितस्ततः । कूणिकोऽच्छादयत्सैन्य-र्भुवं द्यां च रजोभरैः ।।५२।। (युग्मम्) ततो युतोऽष्टादशभि-भूपैर्मुकुटधारिभिः । सप्तपञ्चाशत्सहस्र-रथहस्तिहयान्वितः ।। ५३।। चेटकोऽप्यभ्यगात्सप्त - पञ्चाशत्कोटिपत्तियुक् । स्वदेशसीम्नि सैन्ये च, वाद्धिव्यूहमचीकरत् ।।५४।। (युग्मम्) कूणिकोऽप्यागतस्तत्र, तायव्यूहं व्यधाद्वले । न्यधासम्पतित्वे च, कालं कालमिवोत्कटम् ।।५५।।
lol llell
Illl
lle..
For Personal & Private Use Only