________________
उत्तराध्ययन
llell
सूत्रम् ||७||
७
08085
Jain Education InterMedal
भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् । काकादपि निकृष्टः स्यां, तदलं वार्त्तयानया ।। ३० ।। निषिद्धापि नृपेणैवं नाग्रहं तं मुमोच सा । बालानामिव बालाना-माग्रहो हि भवेद्बली ।। ३१ । । प्रपेदे तद्विशामीश- स्तत्प्रेमविवशोऽथ सः । अकार्यमपि किं प्रायो, न कुर्वन्ति ? वशावशाः ! ।। ३२ ।। (यदुक्तम् - ) " सुवंशजोऽप्यकृत्यानि कुरुते प्रेरित: स्त्रिया । स्नेहलं दधि मध्नाति पश्य मन्थानको न किम् ? ।। ३३ ।। " हारादिकं नृपोऽन्येद्युर्भ्रातरौ तावयाचत । विहाय दूरतः स्नेह-मुन्मत्त इव चीवरम् ।। ३४ ।। तावूचतुस्तातदत्तं, तद्दातुं नार्हमावयोः । तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ।। ३५ ।। इत्युक्तः पार्थिवस्ताभ्यां कषायकलुषोऽवदत् । वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ।। ३६ ।। किं चार्हति ममैवेदं, सारं रत्नचतुष्टयम् । रत्नानि राजगामिनी त्युच्यते हि जडेरपि ।। ३७ ।। ततस्तद्दीयतां नोचे - दूग्रहीष्यामि बलादपि । ओमित्युक्त्वा ततो हल्ल-विहल्ली जग्मतुर्गृहम् ।। ३८ ।। दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह श्रेयांस्तदावयोः ।। ३९ ।। ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ । चम्पायां निशि निर्गत्य, वैशालीं जग्मतुः पुरीम् ।। ४० ।। मातामहाय तौ तत्र, चेटकाय महीभुजे । सर्व स्वोदन्तमावेद्या स्थातां तत्कृतगौरवौ ।। ४१ ।। कूणिकस्तूभयभ्रष्ट - तया चिन्ताञ्चितस्ततः । वैशाल्यां तो गतौ ज्ञात्वा, प्रैषीदूतं वचस्विनम् ।। ४२ ।।
For Personal & Private Use Only
చా చా చా చా S S S T U DT S S SS SD చా చా చా చా లో TS చా చా చా చా చా చా లో లె లో
॥७॥ विनयनाम
प्रथम
मध्ययनम्
७
wjainelibrary.org