________________
| Ifoll
ISI
उत्तराध्ययन
सूत्रम्
leir
JI
isl isi ||
||6| विनयनाम Ill प्रथमisi मध्ययनम्
Jel
Iel
Ifoll llel
lel
कूणिकस्ते च कालाद्याः, दुष्टा बद्ध्वाऽन्यदा नृपम् । विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः ।।१७।। राज्यादिकं ददौ हारा-दिकं तातोऽनयोः स्वयम् । इति राज्यविभागं ते, नादुहल्लविहल्लयोः ।।१८।। कारास्थ एव पितरि, विषं भुक्त्वान्यदा मृते । सानुतापो रतिं प्राप, पुरे तत्र न कूणिकः ।।१९।। वासयित्वा ततोऽन्यत्र, नव्यां चम्पाभिधां पुरीम् । उवास वासव इव, महर्द्धिः कूणिको नृपः ।।२०।। हारकुण्डलवासोभि-दिव्यभूषितभूघनौ । गन्धद्वीपं तमारूढी, सान्तःपुरपरिच्छदौ ।। २१।। क्रीडायै प्रत्यहं हल्लविहल्लो जग्मतुर्नदीम् । तदेति क्रीडयामास, तद्वधूर्गन्धसिन्धुरः ।। २२।। (युग्मम्) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरी: । काश्चिन्यवेशयन्मौली, काश्चिद्दन्तान्तरेष्वधात् ।। २३ ।। उर्वीकृत्य करं काश्चिद्वालिकावद्वियत्यधात् । काश्चिदान्दोलयबोला-मिव शुण्डां विलोलयन् ।। २४ ।। "किं बहुना" ? यथा यथा प्रोचिरे ता-स्तस्मै शस्ताय हस्तिने । विभङ्गज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ।।२५।। तञ्च प्रेक्ष्याद्भुतं सर्वो-ऽप्येवं पौरजनो जगौ । राज्यश्रीफलभोक्तारा-विमावेव न कूणिकः ।। २६ ।। तञ्च पद्मावती राज्ञी, श्रुत्वा कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिन्तयामास चेतसि ।। २७।। दिव्यहारादिना गन्ध-हस्तिना चामुना विना । राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ।।२८।। तत् पत्या सर्वमप्येत-ग्राहयिष्ये बलादपि । ध्यात्वेति सा स्वमाकूतं, रहो राज्ञे न्यवेदयत् ।।२९।।
||81 Nell
ller
ISH
Isil
||all ||sil
llell
||Gll
For P
P
U Only