SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४५१ KI नमिप्रव्रज्यानाम नवममध्ययनम् 11 Isl तावत्तत्रागत: पद्म-रथोश्वापहतो भ्रमन् । तं प्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ।।१४०।। दुःस्थो निधिमिव स्नेहा-द्यावदाजा तमाददे । तावत्तत्सैन्यमप्यागा-त्तत्र वाजिपदानुगम् ।।१४१।। गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् । महिष्याः पुष्पमालाया-श्चक्रे जन्मोत्सवं तथा ।।१४२।। पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते । सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ।।१४३।। एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं । किङ्किणीजालमुखरं, रुचिन्यञ्चितभास्करम् ।। १४४।। शोभितं तोरणार-मुखपत्रलतोपमैः । लम्बमानोडुमालाभ-मुक्तादामविराजितम् ।। १४५।। उत्तुङ्गशिखरं तूर्य-ध्वानापूर्णदिगन्तरम् । रम्यं विमानं तत्रैक-मन्तरिक्षादवातरत् ।।१४६।। (त्रिभिर्विशेषकम्) तस्माञ्च निरगादेकः, सुरो भासुरभूषणः । अमरीनिकरप्रोक्त-जयशब्दो महामहाः ।। १४७ ।। स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् । मुनिं तु पश्चादानम्य, यथास्थानमुपाविशत् ।।१४८।। निरीक्ष्यानुचितं तश, दूनचेता मणिप्रभः । इत्युवाचामरं वाचा, न्यायपादपकुल्यया ।।१४९।। सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः । त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते ? ।।१५०।। कलितं सकलैः साधु-गुणैर्दोषैविनाकृतम् । मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ।।१५१।। सुरोऽब्रवीदिदं सत्यं, शृणु किं त्विह कारणम् । आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ।।१५२।। Iol lfoll Isll Isl sil Jel Noll Jell ४५१ lisil For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy