________________
6 नमिप्रव्रज्यानाम
उत्तराध्ययन
सूत्रम् ४४९
Isl
नवम
Nel
roll मध्ययनम्
lisil
16
Illl ill || llol ||७|
Usil
llell llll fell
७
||oll
l/6l
Mell Illl
ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः । धर्म मणिप्रभायेति, समयाहमुपादिशत् ।। ११४ ।। ब्रह्मचर्यं परब्रह्म-निदानं सम्पदां पदम् । पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ।। ११५।। सर्वस्रीणां परित्यागे, सर्वतो ब्रह्म कथ्यते । परनारीनिषेधे तु, तदुक्तं देशतो जिनैः ।। ११६ ।। ततो यः सकला नारी-विहातुं न प्रभुर्भवेत् । तेनापि पररामा तु, त्याज्या नरकदायिनी ।। ११७ ।। नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते । न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ।। ११८।। परस्त्रीसेवनात्सौख्य-मभिकाङ्क्षति यो जडः । विषवल्लीफलास्वादा-त्स हि वाञ्छति जीवितम् ! ।। ११९ ।। तत्कलङ्ककुलस्थानं, कीर्तिवल्लीकुठारिका । हेया पराङ्गनाऽवश्य, नरकाध्वप्रदीपिका ।। १२० ।। श्रुत्वेति खेचरो बुद्धः, क्षमयित्वा स तां जगौ । अथ त्वमसि जामिमें, ब्रूहीष्टं किं करोमि ते ।। १२१ ।। सापि प्रीताब्रवीद् भ्रातः !, सर्वमिष्टं त्वया कृतम् । इदं दर्शयता तीर्थं, वच्मि तत्किमतः परम् ? ।। १२२।। अथ मे लघुपुत्रस्य, वृत्तान्तं कथय प्रभो ! । तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ।। १२३।। इहैव जम्बूद्वीपे प्राग-विदेहावनिमण्डने । विजये पुष्कलावत्यां, पुरे श्रीमणितोरणे ।। १२४ ।। जज्ञेऽमितयशाश्चक्री, तस्य पुष्पवती प्रिया । तयोश्चास्तां सुतौ पुष्प-शिखररत्नशिखाभिधौ ।। १२५ ।। (युग्मम्) राज्यं चतुरशीतिं स-त्पूर्वलक्षाः प्रपाल्य तौ । प्राव्राजिष्टां भवोद्विग्नौ, चारणश्रमणान्तिके ।। १२६।।
lel ||6||
Ill
Iell
Illl
ell Nell Nell
||Gll ||७||
४४९
Ill Iroll 16 ||sl
ational
in Education n
For Personal & Private Use Only
www.jainelibrary.org