SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ || उत्तराध्ययन सूत्रम् ४४८ IN नमिप्रव्रज्यानाम नवममध्ययनम् तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः । दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ ? ।।१०३।। यदुक्तं - "छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वाबलाद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलानिर्गत्य दूरं वनात् ।। व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्त: पतित: करोतु विधुरे किं वा विधौ पौरुषम् ? ।। १०४।।" सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन । पीडनव्यसनेपीक्षु-र्माधुर्यं किं विमुञ्चति ? ।।१०५।। अयञ्च मदनोन्मादो-न्मत्तो वेत्ति न किञ्चन । तदुपायेन केनामुं, दुर्बोधं बोधयाम्यहम् ।। १०६।। अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् । स हि प्रशस्यत प्राज्ञे-रशुभे समुपस्थिते ।। १०७।। ध्यात्वेति साभ्यधादक्ष !, नीत्वा नन्दीश्वरेऽद्य माम् । देवान् वन्दय तत्राहं, करिष्यामि तव प्रियम् ।। १०८।। ततः स तां विमानस्थां, हष्टो नन्दीश्वरेऽनयत् । तत्र चाहगृहाः सन्ति, द्वापञ्चाशदनश्वराः ।। १०९।। दीर्येषु योजनशतं, तदर्धं पृथुलेषु च । चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ।। ११०।। चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वतार्हताम् । सर्वरत्नमया: पञ्च-धनुः शतसमुच्छ्रयाः ।। १११।। (युग्मम्) ततो विमानादुत्तीर्य, मदनाखेचरी मुदा । पूजापूर्वमवन्देता, ऋषभाद्यान् जिनोत्तमान् ।। ११२।। चतुर्ज्ञानधरं तं च, मणिचूडमहामुनिम् । तावुभावपि वन्दित्वा, यथौचित्यं न्यषीदताम् ।। ११३ ।। lol ||sil |lol lal llel || liol 16l ४४८ Isl lil lol liall Mara I in Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy