________________
WOR
llol
| नमिप्रव्रज्यानाम
उत्तराध्ययन
सूत्रम् ४४७
from
नवम
मध्ययनम्
तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर ! । तमिहानय तत्राशु, नय मां वा नयाश्रय ! ।। ८९।। उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे । तदा सदा दास इवा-ऽऽदेशकारी भवामि ते ।। ९०।। किञ्चात्र शैले गान्धार-देशे रत्नावहे पुरे । श्रेणिद्वयप्रभुरभू-न्मणिचूडाभिधो नृपः ।। ९१।। तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः । नाम्ना मणिप्रभो भूरि-महाविद्याबलान्वितः ।।१२।। अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे । चारणश्रमणोपान्ते, विरक्तो व्रतमाददे ।। ९३।। क्रमाञ्च विहरत्रत्रा-ऽऽगतः सोऽभूद्गतेऽहनि । चैत्यानि वन्दितुं नन्दी-श्वरे चाद्य गतोऽधुना ।।९४ ।। तञ्च नन्तुं व्रजंस्तत्र, त्वां पतन्तीं विहायसः । कल्पवल्लीमिवानन्द-दायिनीमहमाददे ।।९५।। ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया । मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ।। ९६।। अन्यञ्च त्वत्सुतं वाहा-पहतो मिथिलापतिः । निरपत्योऽग्रहीत्पद्म-रथराट् पर्यटन वने ।। ९७।। क्षणान्मिलितसैन्यश्च, गत्वा पुर्या तमार्पयत् । महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ।। ९८।। प्रज्ञप्तीविद्यया ह्येत-न्मयोक्तं तञ्च नान्यथा । तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ।।९९।। मां विधायाधिपं सर्व-खेचरीणां भवेश्वरी । दृशा वाचा च मां रक्तं, सम्भावय सुलोचने ! ।।१००।। तदाकर्ण्य सती दध्यो, विपाकः कर्मणामहो ! । अन्यान्यव्यसनाऽङ्कर-पूरधात्री भवामि यत् ! ।।१०१।। विहाय पुत्रसाम्राज्य-परिच्छदधनादिकम् । यत्त्रातुं निरगां भङ्ग-स्तस्येहाप्युपतिष्ठते ! ।। १०२।।
6
||
४४७
||sil
||oll llroll
lall llall lloll litell
wniw.jainelibrary.org
in Education
For Personal & Private Use Only