________________
lol
rel llell Isl
Holl
उत्तराध्ययन
सूत्रम्
ISI नमिप्रव्रज्यानाम liall
नवम
४४४
roll मध्ययनम्
ll
llel
Isil Isl
||७|| lel IIsll
lol
किञ्चार्हत्सिद्धनिर्ग्रन्थ-धर्माणां शरणं कुरु । जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ।।५०।। महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् । शल्यवद्दुःखदानिन्द, दुराचारान् पुराकृतान् ।। ५१।। क्षमयस्वापराधञ्च, सर्वेषां प्राणिनां प्रभो ! । तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ।। ५२।। नाशयेनिजमेवार्थ, द्वेषस्तस्माद्विमुञ्च, तम् । सुहृदो मम सर्वेपि, जीवा इति विभावय ।। ५३।। देवं सर्वज्ञमर्हन्तं, गुरूंश्च गुणिनो मुनीन् । धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु ।। ५४।। जीवहिंसानृतस्तेया-ब्रह्मचर्यपरिग्रहान् । त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ।। ५५ ।। धनस्वजनमित्रादा-वभिष्वङ्गञ्च मा कृथाः । न हि प्राणभृतां तानि, भवेयुः शरणं भवे ।।५६।। धर्मो धनं सुहृद्वन्धु-रिति चान्तर्विभावय । दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ।। ५७।। इदानीं मुञ्च सावद्य-माहारञ्च चतुर्विधम् । उच्छासे चरमे देह-मपि व्युत्सृज धीर ! हे ।। ५८।। स्मृतेन येन पापोपि, जन्तुः स्यान्नियतं सुरः । परमेष्ठिनमस्कार-मन्त्रं तं स्मर मानसे ।। ५९।। इत्यादि तद्वचः सर्व, स्वमौलिरचिताञ्जलिः । युगबाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ।। ६०।। पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् । अहो ! महीयान् महिमा, धर्मस्य द्युमणेरपि ।।१।। ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः । दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ।। ६२।।
Sh
Nell ||६||
||slil ||Gll Mall
||sil
llel
Isl Ifoll leil
lell Nell
Isl
४४४
leil
llell
||७||
aslil min Education International
Man
For Personal & Private Use Only
www.jainelibrary.org