________________
उत्तराध्ययन
सूत्रम् ४४२
का नमिप्रव्रज्यानाम
नवममध्ययनम्
ततः प्रमुदितस्वान्ता, सुतगर्भ बभार सा । पारिजाततरो/ज-मिव मेरुवसुन्धरा ।। २४ ।। पूजयामि जिनान् साधून, शृणोमि जिनसङ्कथाः । इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः ।।२५।। तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् । अथान्यदा वसन्तर्तु-रागाद्रागिजनप्रियः ।। २६।। मलयानिलशैलूष-प्रयोगारब्धनर्तनाः । दधद्वल्लीनटीवेल्ल-त्पल्लवोल्लासिहस्तकाः ।। २७।। माकन्दमञ्जरीपुञ्ज-मञ्जुगुञ्जदलिव्रजम् । कोकिलध्वनिमन्त्रास्त-मानिनीमानकुग्रहम् ।। २८।। पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् । विस्मेरकुसुमस्रस्त-परागक्लिनभूतलम् ।। २९ ।। क्रीडासक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् । हचौरगौरपोरस्त्री-गीतानीतमृगव्रजम् ।। ३०।। वसन्तसङ्गमाद्रम्य-मुद्यानं रन्तुमुद्यतः । प्रमदात्प्रमदायुक्तो युगबाहुर्ययौ तदा ।।३१।। (पञ्चभिः कुलकम्) दिनं च नानालीलाभि-रतिवाह्य स निश्यपि । तत्रैवास्थादल्पतन्त्रो, रम्भावेश्मनि चास्वपीत् ।।३२।। तदा मणिरथो दध्यौ, स्वल्पतन्त्रो ममानुजः । निशाव्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ।।३३।। तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् । ध्यात्वेति खड्गमादाय, ययावुद्यानमुद्यतः ।।३४।। यामिकानिति चाप्राक्षी-युगबाहुः क्व विद्यते ? । रम्भागृहेत्र सुप्तोस्ती-यूचिरे तेपि सम्भ्रमात् ।। ३५ ।। मा भूभ्रातुर्वनस्थस्यो-पद्रवः कश्चिदित्यहम् । इहागामिति सञ्जल्पन्, सोपि रम्भागृहेऽविशत् ।। ३६।।
ISi
||
४४२
11
||
Ham Jan Education intentional
For Personal & Private Use Only