________________
उत्तराध्ययन
सूत्रम् ४४०
नवम
त्यक्त्वा विडम्बनप्रायां, तदेनां राज्यसम्पदम् । श्रये निःश्रेयसकरी, शमसाम्राज्यसम्पदम् ।। ८२।।
नमिप्रव्रज्यानाम ध्यात्वेति विध्यातममत्ववह्निः, कृत्वा स्वयं लोचमुपात्तदीक्षः । प्रत्येकबुद्धो द्विमुखः सुपर्व-वितीर्णलिङ्गो व्यहरत् पृथिव्याम् ।। ८३।।
मध्ययनम् (इति श्रीद्विमुखनृपकथा ।।२।।) अथ प्रत्येकबुद्धस्य, नमिनानो महात्मनः । बलयात् प्रतिबुद्धस्य, तृतीयस्य कथां ब्रुवे ।।१।। तथा ह्यत्रैव भरते, देशे मालवकाभिधे । आसीदासीकृतस्वर्ग, सुदर्शनपुरं पुरम् ।।२।। तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः । युगबाहुस्तदनुजो, युवराजोऽभवत्सुधीः ।।३।। सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् । जिनवाणीसुधापान-ध्वस्ताज्ञानहलाहला ।।४।। निश्चलं शैलरेखाव-द्दधती शीलमुत्तमम् । युगबाहोश्च मदन-रेखासज्ञाऽभवत्प्रिया ।। ५।। (युग्मम्) तस्या गुणामृतापूर्ण-श्चन्द्रोज्वलयशोद्युतिः । सुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् ।।६।।
llel
iislil भ्रातृजायां तां च दृष्ट्वा-ऽन्यदा मणिरथो नृपः । इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः ।।७।।
s यदि भोगान भुञ्जेह-मनयाङ्गनया समम् । अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः ।।८।।
60 कथं पुनर्विनारागं, स्यादस्याः सङ्गमो मम । नोकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ।।९।।
||
|| तदस्याः प्रणयोत्पत्ते-रुपायान् रचयाम्यहम् । पश्चाद्विज्ञाय तद्भावं, करिष्यामि यथोचितम् ।।१०।।
isi
its lall les
Mor
Mall
|| ial
in Education
For Personal Private Use Only