SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् real I नमिप्रव्रज्यानाम ial नवमlifoll मध्ययनम् ४३९ sil Mel व्यसृजद्विमुखस्तं चा-न्यदा दत्वा हयादिकम् । प्रद्योतोपि ततोयासी-त्पुरीमुज्जयनीं मुदा ।।१९।। उपस्थिते शक्रमहे-ऽन्यदा च द्विमुखो नृपः । नागरानादिशच्छक्र-ध्वजः संस्थाप्यतामिति ।। ७०।। तत: पटु ध्वजपटं, किङ्किणीमालभारिणम् । माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ।। ७१।। वेष्टितं चीवरवरै-र्नान्दीनिर्घोषपूर्वकम् । द्रुतमुत्तम्भयामासुः, पौरा: पौरन्दरं ध्वजम् ।।७२।। (युग्मम्) अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः । पुरस्तस्य च गीतानि, जगुः केपि शुभस्वराः ।।७३।। केचित्तु ननृतुः केचि-दुचैर्वाद्यान्यवादयन् । अर्थितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव ।।७४।। कर्पूरमिश्रघुसृण-जलाच्छोटनपूर्वकम् । मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ।। ७५।। एवं महोत्सवैरागात्पूर्णिमा सप्तमे दिने । तदा चापूजयद्भूरि-विभूत्या भूधवोपि तम् ।। ७६।। सम्पूर्णे चोत्सवे वस्त्र-भूषणादि निजं निजम् । आदाय काष्ठशेषं तं, पौरा: पृथ्व्यामपातयन् ।।७७।। परेद्युस्तञ्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् । आक्रम्यमानं बालाद्यै-भूपोऽपश्यद्वहिर्गतः ।। ७८।। ततः संवेगमापन्नो दध्यौ चैवं धराधिपः । य एवं पूज्यमानोऽभू-त्सर्वेर्लोकैर्गतेऽहनि ।।७९।। स एवाद्य महाकेतुः, प्राप्नोत्येतां विडम्बनाम् । दृश्यते क्षणिकत्वं तत्, क्षणिकानामिव श्रियाम् ।।८।। आयाति याति च क्षिप्रं, या सम्पत्सिन्धुपूरवत् । पांशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ? ।। ८१।। IIII foll ४३९ Nar ||sil For Personal & Private Use Only werw janelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy