SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४३५ & नमिप्रव्रज्यानाम नवम मध्ययनम् Irall all Mail le ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः । क्रमाञ्च नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ।।१७।। गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्स्वपि । एकां छेकां विना पुत्री, मन्ये जन्म निरर्थकम् ।।१८।। लक्ष्मीरिव सुतापि स्या-त्काचित्पित्रोः शुभावहा । ततस्तत्प्राप्तये कञ्चि-देवमाराधयाम्यहम् ।।१९।। ध्यात्वेति मदनाख्यस्य, सा यक्षस्योपयाचितम् । चक्रे सुतार्थं स्वल्पं हि, सर्वं गौरवमश्नुते ।।२०।। ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः । मन्दारमञ्जरीप्राप्ति-स्वप्नदर्शनसूचिता ।। २१।। ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् । दत्तं महाविभूत्या च, यक्षस्याप्युपयाचितम् ।। २२।। दत्ता मदनयक्षेण, मञ्जरीस्वप्नसूचिता । इति तामवदत्तातो, नाम्ना मदनमञ्जरी ।। २३।। क्रमाञ्च वर्द्धमाना सा, कल्पवल्लीव नन्दने । जगन्मनोहरं प्राप, यौवनं रूपपावनम् ।। २४ ।। आदर्शादिषु सङ्क्रान्तात्, तदीयप्रतिबिम्बत: । अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः क्वचित् ।। २५।। इतश्चोज़यनीभर्तु-श्चण्डप्रद्योतभूभृतः । दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ।।२६।। स च प्रत्यागतोवन्ती-मिति प्रद्योतमब्रवीत् । स्वामिन् ! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ।।२७।। राज्ञाथ कथमित्युक्ते, सोवादीत्तस्य भूपतेः । मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ।। २८ ।। तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे । वाग्मिनं प्राहिणोतं, पार्श्वे द्विमुखभूभुजः ।। २९।। llell lell Isll Ilesh Isll lllll ell Isl || lel fol || ||७|| NGO iill 61 IGl Isl Ifoll || ४३५ ell lell Jain Education in For Personal & Private Use Only le.Mw.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy