________________
उत्तराध्ययन
सूत्रम् ४३२
III नमिप्रव्रज्यानाम
नवममध्ययनम्
Ish
Isi IM
नियोज्येमां राज्यभार-धुरां त्वयि धुरन्धरे । धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ।। २६।। इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसनिधौ । करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ।। २७ ।। अथ प्रतापदावाग्नि-ध्वस्तवैरियशोद्रुमः । करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् ।। २८।। स चोर्वीशः स्वभावेन, भृशं वल्लभगोकुलः । स्वीचक्रे तानि भूयांसि, यादांसीव पयोनिधिः ।। २९।। स चान्यदा गतः क्वापि, गोकुले जलदात्यये । सुरभी: सौरभेयांश्च, तर्णकांश्च विलोकयन् ।।३०।। गौरं गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलाप्लुतात् । एकं तर्णकमद्राक्षी-न्मुग्धं स्निग्धतनुच्छविम् ।। ३१।। जातप्रेमा ततस्तस्मिन्, भूमान् गोदुहमूचिवान् । एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ।। ३२।। किञ्च वृद्धि गतस्यास्य, मञ्चित्तानन्ददायिनः । अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ।।३३।। गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् । तथैव विदधे को वा, राज्ञामाज्ञां विलुम्पति ? ॥३४।। सोथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा । पलोपचयदुर्लक्ष्य-कीकसः प्राज्यविक्रमः ।।३५।। शोभमानोंसकूटेन, कूटेनेवावनीधरः । तीक्ष्णाग्रवर्तुलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ।।३६।। (युग्मम्) तथा भूतं च तं मापो, वृषभैरपरैः समम् । क्रीडयायोधयत्तं तु, नाजैषीत्कोपि शाङ्करः ।। ३७।।
lol
Isl१. हिमाद्रेः ।
llell lalll lal
foll
For Personal & Private Use Only