SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ llel उत्तराध्ययन सूत्रम् 6 नमिप्रव्रज्यानाम || 16 Wor नवम Isll ४२९ el मध्ययनम् 161 ||s oll 16ll lie sil Poll युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः । अरोधि मातङ्ग इति, मातङ्ग इव शूकरैः ।। ८७।। (युग्मम्) ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोकरोत् । तस्य राज्यप्रदाने हि, स एव प्रतिभूरभूत् ।। ८८।। निर्मितो ज्वलनेनेवा-ज्वलद्दण्डस्तदा च सः । तञ्च प्रेक्ष्य द्विजा भीता, नेशः शरमिव द्विकाः ।। ८९।। पुरे प्रविष्टो राज्ये चा-भिषिक्तो धीसखादिभिः । सोथ राजा सजातीया-न्मातङ्गान्विदधे द्विजान् ।।९० ।। उक्तञ्च - "दधिवाहनपुत्रेण, राज्ञा च करकण्डुना । वाटधानकवास्तव्या-श्चाण्डाला ब्राह्मणीकृताः ।। ९१।।" तस्यावकर्णक इति, त्यक्तवाद्यं नाम नीरसम् । बालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ।।१२।। प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः । आगत्योवाच राजन्मे, देहि ग्रामं तदोदितम् ।।१३।। कं ग्रामं ते ददामीति, राज्ञोक्तः स पुनर्जगौ । चम्पायां मे गृहं तस्मा-त्तद्देशे ग्राममर्पय ।। ९४ ।। ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः । दधिवाहनभूपालं प्रति निष्प्रतिमो गुणः ।। १५ ।। "तथाहि - स्वस्ति श्रीकाञ्चनपुरा-त्करकण्डुर्महीपतिः । सम्भाषते नृपं चम्पा-धिपं श्रीदधिवाहनम् ।। ९६ ।। परमात्मप्रभावेण, कल्याणमिह विद्यते । श्रीमद्भिरपि तद्ज्ञाप्यं, स्वशरीरादिगोचरम् ।। ९७।। किञ्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः । दास्ये वो रुचितं ग्राम, नगरं वा तदास्पदे ।। ९८।। इदं कार्यं ध्रुवं कार्य, नात्र कार्या विचारणा । मूल्यावाप्तौ विमर्शो हि, व्यर्थ एवेति मङ्गलम् ।। ९९।। ४२९ 101 le. min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy