SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४२८ ||७|| M नमिप्रव्रज्यानाम नवम1161 मध्ययनम् lel ||ll i 16 Jell Isil Illl llell Nell Nell lall विप्रोवोचदनेनेव, कार्य मे वर्त्तते ततः । अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे ।।७४ ।। तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् । कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ।।७५।। बालोब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावत: । भविष्यामि नृपो नूनं, तदस्याम ददे कथम् ? ।।७६।। ततो विहस्य तं बाल-मेवं कारणिका जगुः । राज्यावाप्तौ द्विजस्यास्य, ग्राममेकं त्वमर्पये: ।। ७७।। तत्प्रपद्य निजं धाम, करकण्डुर्ययो द्रुतम् । द्विजोप्यन्यान् द्विजानेव-मूचे गत्वा स्वमास्पदम् ।।७८।। दण्डं ममापि जग्राह, बलाञ्चाण्डालबालकः । ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ।।७९।। कथमप्येतदाका -वकर्णकपिता ततः । पत्नीपुत्रान्वितोनश्य-त्सुतरक्षाकृते क्षणात् ।। ८०।। गत्वा च काञ्चनपुरे, ते त्रयोपि पुरावहिः । कुत्रापि सुषुपुः श्रान्ताः, स्वापो हि श्रमभेषजम् ।। ८१।। तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत । ततोधिवासयामासु-स्तुरङ्गं मन्त्रिपुङ्गवा: ।। ८२।। तुरङ्गोऽपि भ्रमंस्तेषां, सुप्तानामन्तिके ययो । तञ्च प्रदक्षिणी चक्रे, बालं देवमिवास्तिकः ।। ८३।। तञ्च तेजस्विनं श्रेष्ठ-लक्षणं वीक्ष्य नागराः । तुष्टा जयारवं चक्रु-स्तूर्यनिर्घोषमिश्रितम् ।।८४।। ध्वानेन तेन विध्वस्त-प्रमील: सोथ बालकः । जृम्भायमाण उत्तस्था-वारुरोह च तं हयम् ।। ८५।। तूर्यध्वनिप्रतिध्वाना-पूर्णद्यावाक्षमान्तरः । पौरैः परीत: परित-स्तारापतिरिवोडुभिः ।। ८६ ।। Mal foll sil || viol ||l IIsl ४२८ lell Isl || le in Education in For Personal & Private Use Only Honesiainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy