________________
उत्तराध्ययन
सूत्रम्
४२७
Jain Education International
अवाप यच भिक्षायां शोभनं मोदकादिकम् । तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ।। ६१ । । जन्मतस्तस्य देहे च, रूक्षकण्डूरभूद्धृशम् । स च वृद्धिङ्गतो बालैः, समं कीडनदोवदत् ।। ६२ ।। अहं वो नृपतिस्तस्मा द्यूयं दत्त करं मम । बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते ? ।। ६३ ।। स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः । करेणानेन तुष्टोस्मि कृतं तदपरैः करैः ।। ६४ ।। ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः । गुणक्रियादिभिर्नाम, नवीनमपि जायते ।। ६५ ।। किञ्चित्प्रौढत्वमापन्नः, श्मशानं च ररक्ष सः । तदेव हि कुले तस्मिन् गीयते कार्यमुत्तमम् ।। ६६ ।। हेतोः कुतश्चिदायातौ, श्मशाने तत्र चान्यदा । द्वी मुनी वंशजालान्त-र्दण्डमेकमपश्यताम् ।। ६७ ।। तयोरेको यतिर्दण्ड- लक्षणज्ञो महामतिः । तं वंशं दर्शयन्त्रेव मवादीदपरं मुनिम् ।। ६८ ।। यावता वर्धते चत्वार्यङ्गुलान्यपराण्ययम् । तावत्प्रतीक्ष्य यो ह्येन मादत्ते स भवेन्नृपः ।। ६९ ।। साधुवो वृक्ष निकुञ्जान्तरवर्तिना । तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ।। ७० ।। ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गुलम् । छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ।। ७१ ।। तञ्च प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् । आछिद्य जगृहे को वा, राज्यलक्ष्मीं न काङ्क्षति ? ।। ७२ ।। ततस्तं करणे नीत्वा, दण्डं देहीत्यवग् द्विजः । स प्रोचेऽसौ श्मशाने मे, जातस्तन्न ददामि ते ।। ७३ ।।
For Personal & Private Use Only
వై చాచా చా చా చా చా చా లె లెలె లో T S S S S S T U చా చా చా DS TO D S S S లె లె రై
||७|| नमिप्रव्रज्यानाम
नवम
मध्ययनम्
४२७
ww.jainelibrary.org