SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४२६ Jain Education International यह स्यात्सुखं किञ्चिद्विषयाद्युपभोगजम् । दुःखानुषङ्गात्तदपि दुःख एव निमज्जति ।। ४८ ।। यत एव च संसारो, दुःखानामेकमास्पदम् । प्रपद्यन्ते मोक्षमार्ग-मत एव विवेकिनः ।। ४९ ।। इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् । पृष्टाप्याचष्ट नो गर्भं, चारित्रादानशङ्कया ।। ५० ।। गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ । सत्यमूचे ततस्तास्तां, साध्वीं गुप्तमरक्षयन् ।। ५१ ।। गर्भकाले च सम्पूर्ण, शय्यान्तरगृहस्थिता । असूत सुतरत्नं सा, मणि रोहणभूरिव ।। ५२ ।। ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् । तत्तातनाममुद्राङ्के, रत्नकम्बलवेष्टितम् ।। ५३ ।। द्रष्टुं तद्ग्राहकं साथ, तञ्च त्रातुमुपद्रवात् । प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृतार्द्रया ।। ५४ ।। तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः । जगृहे तं निजगृहे, नीत्वा पत्यै च दत्तवान् ।। ५५ ।। तस्यावकर्णक इति, सानन्दः सोभिधां व्यधात् । आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ।। ५६ ।। क्व गर्भ इति साध्वीभिः पृष्टा चेत्यवदन्मृषा । मृतः सुतो मया जातः, स च त्यक्तः क्वचित्ततः ।। ५७ ।। साध्व्योपि सरलाः सर्वा-स्तत्तथा प्रतिपेदिरे । बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ।। ५८ ।। वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता । जगाम प्रत्यहं प्रेत- वनपालस्य धामनि ।। ५९ ।। तत्पत्न्या च समं प्रेम, चक्रे सम्भाषणादिभिः । अलालयच्च तं बाल-महो ! मोहोतिदुर्जयः ।। ६० ।। For Personal & Private Use Only SSD D లె లె లె లే రా చా చా చా చా చాలి S S S S TT TO DO U T S S SS T ||६|| नमिप्रव्रज्यानाम नवम मध्ययनम् ४२६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy