________________
उत्तराध्ययनसूत्रम्
४२३
STATS FATF F
Jain Education International
सानन्दं पौरपौरीभिः, प्रेक्ष्यमाणो बलान्वितः । प्रावृट्कालप्रवेशेन, रम्यमाराममासदत् ।।९।। (युग्मम्) तदा च नव्यपाथोद-पाथः सङ्गमसम्भवः । गन्धः प्रादुरभूद्भूमेः, सुरभिर्नासिकन्धयः ।। १० ।। तञ्च गन्धं समाघ्राय, ध्यायन् विन्ध्याचलाटवीम् । व्यालः काल इवोत्ताल:, कान्तारं प्रत्यधावत ।। ११ । । व्यावर्तमानो विक्रान्तैर्भूयोभिरपि स द्विपः । कदाग्रहादिव शठो, गमनान्न न्यवर्तत ।। १२ । । कुर्वाणैर्विविधोपायान्, स्खल्यमानोपि मानवैः । न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ।। १३ ।। विहस्तेषु ततस्तेषु, पश्यत्स्वेव स हस्तिराट् । पश्यतोहरवद्धूप-राज्ञ्यौ हत्वा वनेऽनयत् ।। १४ ।। तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वटद्रुमम् । देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ।। १५ ।। तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः । गृह्णीयास्त्वं ग्रहीष्येतच्छाखामहमपि प्रिये ! ।। १६ ।। आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं । अन्यथा त्वावयोर्भावी, वनेस्मिन् कोप्युपद्रवः ।। १७ ।। प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे । तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ।। १८ ।। क्ष्मापस्तु दक्षस्तच्छाखा-मालम्ब्योदतरद्वटात् । प्राणप्रियामपश्यंश्च व्यलापीदिति दुःखितः । । १९ ।। अयि कान्ते ! कदा भावी ?, सङ्गमः पुनरावयोः । अमुना रिपुरूपेण, करिणा वञ्चितोस्मि हा ! ।। २० ।। त्वद्वियोगोद्भवं दुःखं, दावाग्नेरपि दुःसहम् । असोढपूर्वं दयिते !, सहिष्येहं कियचिरम् ? ।। २१ ।।
For Personal & Private Use Only
DATTELIGEET
|| नमिप्रव्रज्यानाम
नवम
मध्ययनम्
1SSSSSSSSSSSSADOSTS
४२३
www.jainelibrary.org