________________
lisil llsil lIsll
llol
उत्तराध्ययन
सूत्रम् ४२२
llel
ION
नवम
llel
।।अथ नमिप्रव्रज्यानाम नवमाध्ययनम् ।।
III नमिप्रव्रज्यानाम । अर्हम् ।। उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायभिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभश्चेहापि ॥
मध्ययनम् PSI शक्रादिपूज्य: स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य प्रस्तावनार्थ नमिचरितं तावदिहावश्यं वाच्यम् । यथाचायं HS प्रत्येकबुद्धस्तथान्येपि करकण्ड्वादयस्त्रयः प्रत्येकबुद्धास्तत्समकालस्वर्गच्यवनदीक्षोपादानकेवलज्ञानमहानन्दपदभाजो बभूवुर्यद्वक्ष्यति, Mel "करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो । नमी राया विदेहेसु, गंधारेसु अ नग्गइ ।।१।। त्ति” ततः प्रसङ्गात्तञ्चरितान्यपीहोच्यन्ते ।
तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः । करकण्डुमहीजाने-श्चरितं वच्मि तद्यथा ।।१।। अत्रैव भरते चम्पा-नगर्यां गुरुविक्रमः । भूपोभूद्गुणरत्नाना-मुदधिर्दधिवाहनः ।।२।। पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः । राज्ञी तस्याभवत्पद्या-वती पद्या हरेरिव ।।३।। भुञ्जाना भूभुजा साकं, भोगाभोगान् यथासुखम् । बभूव सा क्रमादन्त-र्वत्नी पत्नी महीपतेः ।।४।। कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता । विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ।।५।। इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः । तस्यापूर्णे च सा काय, कृष्णपक्षेन्दुवद्दधौ ।।६।। (युग्मम्) ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् । जगी तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ।।७।। ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् । स्वयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ।।८।।
Isl
||sl
Isl
४२२
||Gll ||Gl lol 16 lish
lel leel
For Person Pause Only