________________
उत्तराध्ययन
सूत्रम्
||Gll
आणाणिद्देसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुञ्चइ ।।२।।
विनयनाम
प्रथमव्याख्या --- आज्ञा,-सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं ॥
मध्ययनम् करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपात: समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्धावस्थायी, न तु गुर्वादेशादिभीत्या | Mell दूरदेशस्थायीति भावः, इङ्गितं निपुणमतिज्ञेयं प्रवृत्तिनिवृत्तिसूचकं ईषद्धूशिरः कम्पाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको Moll दिगवलोकनादिः, आह च - "अवलोअणं दिसाणं, विअंभणं साडयस्स संवरणं । आसणसिढिलीकरणं, पट्ठिअलिंगाई एआई ।।१।।" Mel अनयोद्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्नो युक्तस्तद्वेदितया इङ्गिताकारसम्पन्न: स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित Ifoll इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थः ।। २।। अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतस्वरूपमाह -
आणाणिद्देसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुचई ।।३।।
व्याख्या --- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्रतिकुलवती । कुतोऽयमेवंविधः ? इत्याह । - यतो असम्बुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि - सूरेरेकस्य शिष्योऽभू-दविनीतोऽतिरोषणः । चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ।।१।।
Nell दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् । स तु तामपि मेनेऽन्त-विषाक्तविशिखोपमाम् ।।२।।
||७|| हितशिक्षा हि दुष्टानां, नोपकाराय जायते । पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ।।३।। 61 IISM
NSA
wol
roll
ilsil
leil llell ||sil
lol
||Gll
46
in Education International
For Personal & Private Use Only
www.jainelibrary.org