________________
॥७॥ lol lls
उत्तराध्ययन
सूत्रम् ४१६
lil
Isl Isl
lleel lIsll
Isl
||61 Is अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह - 'जायाएत्ति' यात्रायै संयमनिर्वाहार्थम्, 'घासंति' ग्रासमेषयेद्वेषयेत् । कापिलीय
का नाम अष्टमएषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेषु स्निग्धमधुरादिषु गृद्धो गृद्धिमान् न स्यान्न भवेद्भिक्षाद्येऽनेन रागत्याग उक्तो, MI
मध्ययनम् द्वेषोपलक्षणञ्चतत्ततश्च रागद्वेषविमुक्तो भुञ्जीतेति सूत्रार्थः ।।११।। रसागृद्धश्च यत्कुर्यात्तदाह -
पंताणि चेव सेविजा, सीअपिंडं पुराणकुम्मासं । अदु बक्कसं पुलागं वा, जवणट्ठाए निसेवए मंथु ।। १२।।
व्याख्या - प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणा: प्रभूतवर्षधृताः कुल्माषा राजमाषास्तान्, एते हि पुराणा अत्यन्तपूतयो नीरसा भवन्तीति तद्ग्रहणं, उपलक्षणञ्चैतत् ॥
पुराणमुद्गादीनां 'अदु' इत्यथवा 'बक्कसं' मुद्गादिनहिकानिष्पन्नमन्नं, पुलाकमसारं वल्लचनकादि, वा समुच्चये । 'जवणट्ठाएत्ति' यापनार्थं ॥ का देहनिर्वाहार्थं निषेवेत भुञ्जीत, मन्थुञ्च बदरादिचूर्णं, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह च यापनार्थमित्यनेनैतत्सूचितं, is यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छगतो मुनिः सरसमपि सेवेत ।
जिनकल्पिकादिर्गच्छनिर्गतस्तु प्रान्तादीन्येव सेवेत, तस्य तादृशानामेवादानानुज्ञानात् । पुन: क्रियाभिधानं तु न सकृदेतानि सेवेत, किन्तु | MS सर्वदापीति सूचनार्थमिति सूत्रार्थः ।।१२।। शुद्धेषणाविपर्यये दोषमाह -
Isl
Ill IIGIN
Wood
ISI
||
४१६
lal Ifoll ||ol
Isl
||sh
Illl
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org