SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ॥७॥ liGll Jell उत्तराध्ययन सूत्रम् ४१४ समणामु एगे वयमाणा, पाणवहं मिआ अयाणंता । मंदा निरयं गच्छंति, बाला पाविआहिं दिट्ठीहिं ।।७।। कापिलीय व्याख्या - श्रमणाः स्मो वयमित्येके केचनान्यतीथिका वदमाना: स्वाभिप्रायं दीपयन्तः, 'दीप्तिज्ञानयत्रविमत्युपसम्भाषोपमन्त्रणे वद | isi मध्ययनम् 5 इत्यात्मनेपदम् ।' प्राणवधं प्राणघातं मृगा इव मृगा मूढत्वात् अजानन्तः ! के प्राणिनः ? के वा तेषां प्राणा: ? कथं वा वधः ? l इत्यनवबुध्यमानाः । अनेन प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगाकुलिता: 'निरयं' & नरकं गच्छन्ति, बाला निर्विवेका: पापिकाभिः पापहेतुभिर्दृष्टिभिर्दर्शनाभिप्रायरूपाभि: "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भ्यो वैश्य, | " तपसे शूद्र" तथा – “यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन लिप्यते ।।१।।" 8 Ill इत्यादिकाभिर्दयादमबाह्याभिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्याद्यदुक्तं - "चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः । न 6 Mell व्यपोहन्ति पापानि, शोधको तु दयादमौ ।।१।।" इति सूत्रार्थः ।।७।। अत एवाह - ||७|| नहु पाणवहं अणुजाणे, मुचिज कयाइ सव्वदुक्खाणं । एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ।।८।।Mell __ व्याख्या - न हु नैव प्राणवधं मृषावादादेरुपलक्षणञ्चैतत्, 'अणुजाणेत्ति' अपेलृप्तस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् कारयन् वा मुच्येत l त्यज्येत कदाचित् क्वापि काले 'सव्वदुक्खाणंति' सुप्व्यत्ययात्सर्वदुःखै, शारीरमानसः क्लेशः, ततो हिंसादिनिवृत्ता एव श्रमणा भवं तरन्तीति का तत्वम् । न चैतन्मयैवोच्यत इत्याह, एवमुक्तनीत्या आर्यस्तीर्थकरादिभिराख्यातं कथितं, यैरावैरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति । सूत्रार्थः ।।८।। साधुधर्ममेवाह - leir sil Isl ४१४ Isl lol Isl lel Hal Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy