________________
161
उत्तराध्ययन
सूत्रम् ४१०
Iol अस्मानवगणय्येव, समेत्ययमिति क्रुधा । गृहीत्वा ते मुनि निन्यु-रुपसेनापतिं द्रुतम् ।। ६०।।
लि कापिलीय
foll ऊचे सेनापतिः क्रीडा, कुर्मोऽनेनेति चिन्तयन् । साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ।।६।।
नाम अष्टम
मध्ययनम् वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते । तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारणं विना ।।६२।। वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः । ध्रुवकानुचकैर्गाय-बनर्त कपिलो मुनिः ।।६३।। तद्यथा - "अधुवे असासयंमि, संसारंमि उ दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ।।६४ ।। प्रतिध्रुवमिमं गायन, ध्रुवं कपिलकेवली । जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ।।६५ ।। एतदध्ययनं जज्ञे, तैरेव ध्रुवकधुवम् । शास्त्रत्वं प्रतिपद्यन्ते, वचांस्यपि हि तादृशाम् ।। ६६ ।। तेषु चाद्यं ध्रुवं श्रुत्वा, केप्यबुध्यन्त दस्यवः । केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ।।६७।। इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् । विहृत्य पृथ्व्यां सुचिरं क्रमाञ्च, बभूव निर्वाणपुराधिवासी ।। ६८।। इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते, तश्चेदं - अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए । किं नाम होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ।।१।। व्याख्या - कपिलो हि भगवान् स्वयं बुद्धश्चौरप्रतिबोधार्थं प्रथमममुं ध्रुवं जगौ । ध्रुवकलक्षणञ्चेदं - "जं गिजइ पुव्वं चिअ, पुणो पुणो
४१०
Isl
|sil || Isil Poll Jell 16 Isil
in Econo
For Personal Private Use Only