________________
is
उत्तराध्ययन
सूत्रम् ४०७
कापिलीय नाम अष्टममध्ययनम्
सहर्ष शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्वहम् । पपाठ पाठकोपान्ते, भुक्त्वा तद्धाग्नि 'माणवः ।।२२।। भोक्तुङ्गतस्य तद्व्हे, कपिलस्यानुवासरम् । दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ।। २३ ।। तस्य विद्याभिरात्मानं, भोज्यैरङ्गञ्च पुष्णतः । उदभूद्यौवनं दाक्ष्या-कैरोजीवनजीवनम् ।।२४।। हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत । यौवनं हि विकाराणां, सर्वेषामादिकारणम् ।। २५।। तया च रक्तया साकं, कपिलोऽरमताऽनिशम् । तदेकचित्ता तञ्जैव-मूचे दास्यन्यदा रहः ।। २६ ।। त्वमेव मे प्रियः किन्तु, निःस्वोऽसीत्यपरं नरम् । सेवे वस्त्रादिहेतोश्चे-त्र ते कोपः प्रजायते ।। २७।। अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् । तस्यां पुर्याञ्चान्यदाऽऽसी-दासीनामुत्सवो महान् ।। २८।। तदा च प्रेक्ष्य तां दासी-मुद्विग्नां कपिलो द्विजः । कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ।। २९।। साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः । न च मे पत्रपुष्पादे-र्मूल्यं किञ्चन विद्यते ! ।।३०।। तद्विना तु सखीमध्ये, लभिष्येऽहं विगोपनाम् । सश्रियो हि स्त्रियो निःस्वां, हीलयन्ति सखीमपि ।।३१।। तच्छ्रुत्वा कपिलोप्यन्त-रधृताऽधृतिमुञ्चकैः । याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ।। ३२।।
ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा । अत्रास्ति श्रेष्ठिषु श्रेष्ठो, धनाख्यो धनदोपमः ।।३३।। १. अल्पवयस्कः ।
llol
||ell ill
४०७ islil |sil lifsil Insl
www.jainelibrary.org
Jan Education international
For Personal & Private Use Only