________________
101
sil
उत्तराध्ययन
सूत्रम् ४०६
कापिलीय II नाम अष्टम
मध्ययनम्
||
Iel
16 lol
सुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् । यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ।।१०।। यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति । यो हि त्वां पाठयेत्तस्मै, कुप्येनव्यपुरोहितः ।।११।। तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् । इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पाठयिष्यति ।।१२।। ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च । आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ।। १३।। उपाध्यायोऽभ्यधावत्स !, युक्तस्तेऽसौ मनोरथः । विशेषं नह्यहं कञ्चित्, पश्यामि पशुमूढयोः ।।१४ ।। किन्तु ते भोजनं दातुं, निःसत्वादक्षमोऽस्म्यहम् । तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यसि ? ।। १५ ।। भ्रातुष्पुत्राय ते विद्या-थिने प्राघुर्णकाय च । भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ।।१६।। अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया । भिक्षावृत्त्या करिष्येऽहं, प्रत्यहं प्राणधारणम् ।।१७।। उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यसे । तदेहि तव भुक्तत्यर्थं, प्रार्थये कञ्चिदीश्वरम् ।। १८ ।। इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् । जगाम कुञ्जर इव, कलभेन समं सरः ।।१९।। ॐ भूर्भुवःस्वरित्यादि-गायत्रीमन्त्रवादिनम् । दत्ताशिषं तमिभ्योऽपि, किं कार्यमिति पृष्टवान् ।।२०।। ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् । भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ।।२१।।
||ll ||oll
foll
le
४०६
Ill
ell
ller
liall min Education Interation
16ll
www.jainelibrary.org
For Personal & Private Use Only