________________
| llol
उत्तराध्ययन
||७|
४०५
16
Ill
Isil Isl
llel
16ll
lish
Ill
ell
Jell
llell IIsl
॥अथ कापिलीयनाम अष्टमाध्ययनम् ।।
कापिलीय
नाम अष्टमव्याख्यातं सप्तमध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रसगृद्धित्याग उक्तः, स|
मध्ययनम् I च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादौ कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदाय: -
तथाहि पुर्यां कौशाम्ब्यां, जितशत्रुमहीशितुः । पुरोधाः काश्यपाह्वोऽभू-द्विद्याम्भोनिधिपारगः ।।१।। यशस्विनी यशा नाम्नी, तस्यासीत्प्राणवल्लभा । अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ।।२।। कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा । काल: कालमकालं वा, न हि मृत्योरपेक्षते ।।३।। मृते तस्मिन्नृपोऽन्यस्मिन्, पुरोहितपदं न्यधात् । अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ।। ४ ।। हयारूढं धृतच्छत्रं, तं नूतनपुरोहितम् । गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ।।५।। तदर्शनानिलोद्भूत-भूरिदुःखानलार्दिता । स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ।।६।। कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः । रुदनित्यवदन्मात-स्त्वं रोदिषि कुतोऽनिशम् ? ।।७।। साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र ! वर्त्तते । साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे ।।८।। सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा । ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ।।९।।
४०५
isil lish
16 lil
Isill
Poll
ell
llsil
Poll Moll
lloll
All
Isil
ilsil
in Education Internal
For Personal & Private Use Only
www.jainelibrary.org