________________
llsil
उत्तराध्ययन
सूत्रम् ४०२
NEW
Mel
||७||
का स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह-श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपत्रं मार्ग रत्नत्रयरूपं औरभ्रीयनाम
सप्तममुक्तिमार्ग, यद्यस्माद्भूयः पुन: परिभ्रश्यति, कामनिवृत्तिं प्रतिपत्रोऽपि गुरुकर्मत्वात्ततः प्रतिपतति । ये तु श्रुत्वापि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति
मध्ययनम् तेऽपि कामानिवृत्ता एवेति भाव इति सूत्रार्थः ।।२५।। यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह -
इह कामनिअट्टस्स, अत्तटे नावरज्झइ । पूइदेहनिरोहेणं, भवे देवित्ति मे सुअं ।।२६।।
व्याख्या - इह कामेभ्य निवृत्तः कामनिवृत्तस्तस्यात्मार्थः स्वर्गादि पराध्यति न भ्रश्यति, कुत: पुनरेवं ? यत: पूति: कुथितो देह औदारिकं शरीरं तस्य निरोधोऽभाव: पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेद्देवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा । इत्येतन्मया श्रुतं परमगुरुभ्य शेष इति सूत्रार्थः ।। २६ ।। तदनु यदसौ प्राप्नोति तदाह - . इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजइ ।। २७ ।।
व्याख्या - ऋद्धिः स्वर्णादिका, द्युतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था श्लाघा, गौरत्वादिषु, Sll आयुर्जीवितं, सुखं यथेष्टविषयवाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदञ्च सर्वत्र योज्यते । एतानि यत्र येषु मनुष्येषु भवन्ति प्राच्यस्य भूयःशब्दस्येह योगात् ॥
४०२
16
llll
llasil
lls
Nell
llell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org